SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 'भवान् अवश्यं शक्त एव जोनाथन् !, यतो भवान् सुशिक्षितोऽस्ति । अपि च, भवत इहत्यिकमध्ययनं समाप्तम्, इतः परं त्वन्यस्यां शालायां भवतोऽध्ययनवेला सन्निहिताऽस्ति । सन्नद्धो भवतु शीघ्रम् ' । येन बोधेन तस्य समस्तमपि जीवनं प्रकाशितमभवत्, स एव बोधो तस्यैनं क्षणमपि उज्ज्वलप्रकाशमयमकरोत् । तौ युक्तमेव वदतः स्म यदितोऽप्यूर्ध्वतरं स उड्डयितुं क्षम एव । तथा वेलेयमपि स्वगृहगमनायोचितैव। स तदाकाशं तां च भव्यां रजतवर्णां पृथ्वीं, यत्र स भूरिज्ञानं प्राप्तवान् आसीत्, अन्तिमवारं निरीक्षितवान् । 'अहं सिद्धोऽस्मि' प्रान्ते सोऽवदत् । अथ च सागरपक्षी जोनाथन् लिविंग्स्टन् ताभ्यां तारकोज्ज्वलाभ्यां पक्षिभ्यां सहोड्डीय गाढतमोमये आकाशेऽदृश्यः सञ्जातः । 26 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001165
Book TitleSagarvihangam
Original Sutra AuthorN/A
AuthorMeera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy