________________
जाते तु सूर्योदये विद्यार्थिवर्तुलाद् बहिः प्रायः सहस्रं पक्षिणः संस्थिता आसन् । ते च मेनार्ड्सक्षिणमुत्सुकतया पश्यन्त आसन् । अन्ये तान् द्रक्ष्यन्ति इति चिन्तैवेदानीं तेषां नाऽऽसीत् । ते तु जोनाथन्वचांसि श्रुत्वा तान्यवबोद्धं प्रयत्नशीला आसन् । जोनाथन् तु अत्यन्तं सरलतया वदन्नासीत् - 'उड्डयनं नाम पक्षिणां निर्बाधोऽधिकारः, स्वातन्त्र्यं तु तस्य सहजा प्रकृतिरस्ति, यत्किमपि स्वातन्त्र्यं निरुन्ध्यात् तत् सर्वथा दूरीकर्तव्यं, भवतु नाम तत् कर्मकाण्डोऽन्धश्रद्धा वाऽन्यद् वा किमपि बन्धनम् !' । 'यदि तत् समाजस्य नियमः स्यात् तदाऽपि?', समूहतः कश्चित् पृष्टवान् । 'सत्यो नियमस्तु स एव यः स्वातन्त्र्यं प्रापयेत्', जोनाथन् उक्तवान्, 'अन्यस्तु नाऽस्त्येव ।' 'यथा भवान् उड्डयने समर्थस्तथा वयं कथं समर्था भवेम?' अपरोऽपृच्छत्, 'यतो भवांस्तु विशिष्टो भगवत्कृपाप्राप्तः दिव्यश्च, अन्येभ्यश्च सागरपक्षिभ्य उच्चतर अस्ति ।' 'मैवं चिन्तयन्तु, फ्लेचर्पक्षिणं पश्यन्तु, लोवेल पक्षिणं, चार्ल्सोलेण्ड्पक्षिणं !! किं तेऽपि विशिष्टाः कृपाप्राप्ता दिव्याश्च ? नैव, ते तु मादृशा भवादृशाश्चैव सन्ति । विशेषो यदि स्यात् तदा एक एव, यत्-ते स्वीयं सत्यस्वरूपमवबुध्य तदनुसारमभ्यासं कर्तुं प्रयत्नशीलाः सन्ति ।' एतन्निशम्य फ्लेचर्पक्षिण ऋते सर्वेऽपि तच्छिष्या अस्वस्थाः साताः । ते न जानन्ति स्म यत् ईदृशमपि किञ्चित् ते कुर्वाणाः सन्तीति । इतो जोनाथन्समीपमागच्छतां पक्षिणां सङ्ख्या प्रतिदिनमवर्धततराम् । केचित् स्वजिज्ञासां सन्तोषयितुमागच्छन्ति स्म, केचित् तं देववत् पूजयितुं केचिच्चाऽवमानयितुमपि।
69
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org