SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ अथैकस्मिन् प्रभाते महावेगयुतोड्यनाभ्यासानन्तरं फ्लेचर् जोनाथन्पक्षिणमकथयत् – 'ते वदन्ति समाजे यद् भवान् साक्षात् महासागरपक्षिणः पुत्रोऽस्ति, अथ च भवान् अस्मत्त: सर्वेभ्योऽपि समयापेक्षया वर्षसहस्रमग्रेतनः इति ।' जोनाथन् दीर्घ निःश्वस्य चिन्तितवान्, 'अन्यथा चिन्तनस्य मूल्यमितोऽपि दातव्यं खलु !'; 'तेऽस्मान् देववत् पूजयन्ति वा राक्षसं वा मन्यन्ते', स फ्लेचर्पक्षिणमुक्तवान्, 'भवान् किं मन्यते ? किमावां समयापेक्षयाऽग्रेतना वा?'। दीर्घमौनानन्तरं फ्लेचर् अवदत्, 'नन्वीदृशमुड्डयनं शिक्षितुं यः कोऽपि इच्छेत् स सर्वदा सर्वथा च समर्थः, समयापेक्षा त्वत्र नास्त्येव । एतत् तु सत्यमेव यदावां परम्परातस्तु नितरामग्रेसरा एव । गतानुगतिकतया ये उड्डयन्ते तेभ्योऽपि वयं सर्वथाऽग्रेतना एव ।' 'एतत् तु शुभचिन्तनं भोः !' विपर्यस्तोड्डयनप्रयोगं कुर्वाणो जोनाथन् अवदत्, “समयतोऽग्रेतनत्वतस्तु सर्वथोत्तमम् ।' Jain Education International For Private 9 Personal Use Only www.jainelibrary.org
SR No.001165
Book TitleSagarvihangam
Original Sutra AuthorN/A
AuthorMeera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy