________________
सप्ताहानन्तरमेवैतद् घटितम् । फ्लेचर्पक्षी नूतनविद्यार्थिवर्ग शीघ्रगतिकोड्डयनस्यांऽशान् निदर्शयन्नासीत् । सद्य एव सप्तसहस्रपादोन्नतेरवपतनं कृत्वा तटस्य किञ्चिदुपरिष्टादेव दीर्घधूसरितरेखायां स उड्डीनः । तावता एकः पक्षिशावः स्वीये प्रथम एवोड्डयने मातर्मातरिति चीत्कुर्वन् साक्षात् तस्य मार्ग एव समापतत् । तं रक्षितुं क्षणस्य दशमेंऽशे एव फ्लेचर् सहसैव तीव्रतया च यावद् वामतः परावृत्तस्तावत् समधिकद्विशतमाइल्-वेगेन एकस्मिन् घनप्रस्तरमये भृगौ संघट्टितः । अयं च महापाषाणस्तस्य कृतेऽन्यस्मिन् विश्वे प्रवेशाय कठोरं बृहच्च प्रवेशद्वारमिवाऽभवत् । संघट्टनेन तस्य मनो भयाघातान्धकारैराक्रान्तमिव । कुत्रचिदज्ञाते आकाशे इतस्ततः प्लवमानः, स्मरण-विस्मरणतरङ्गेषु च दोलायमानः स भयभीत उद्विग्नः खिन्नश्च सञ्जातः, अतिशयं खिन्नः । तावता स एव ध्वनिस्तस्याऽन्तरुद्भूतो यो जोनाथन्पक्षिणः प्रथमसमागमे तेन श्रुत आसीत् । 'फ्लेचर्पक्षिन् ! अस्माभिरस्माकं मर्यादा बन्धनानि च क्रमशो धैर्येणैव च लङ्घनीयानि, एष एव महान् उपायोऽस्ति सर्वत्र । शिलावेधिउड्डयनमस्माकमभ्यासक्रमे इतोऽपि कञ्चित् कालमपेक्षते ।' 'जोनाथन्....!' ‘महासागरपक्षिणः पुत्रतयाऽप्यभिज्ञायतेऽसौ', स रूक्षतयाऽवदत् । 'भवान् अत्र किं करोति? स भृगुः !.. परन्तु किमहं ..... किमधुनाऽपि .... न मृतोऽहम् ?' 'अहो फ्लेच ! यदि भवानिदानी मया सह संलपेत् तर्हि कथं भवान् मृतः स्यात् ? भवता साहसिकतयाऽविचारिततया च चैतन्यस्यैकस्मात् स्तरादन्यत् स्तरं गन्तुं प्रयतितम् । अत इदं घटितम् । समाजवृद्धैस्तु भवतो महती विपत्तिरपेक्षिताऽऽसीत्, किन्तु भवन्तं जीवितं दृष्ट्वा ते
आश्चर्याघाताभ्यां स्तब्धीभूताः सन्ति । भवतु तत्, किन्त्विदानीं भवतैव निर्णेतव्यं यत्, भवानस्मिन् स्तर एव - यत् पूर्वतनात् स्तरात् किञ्चिदुJain Education International For Private & Personal Use Only
www.jainelibrary.org