________________
तस्य चैतन्यं साफल्योन्मादेनोल्लसितमासीत् । 'वेगस्य पर्यन्तावधिः ! सामुद्रो विहगः कश्चित् शतद्वयाधिकमाइल्-वेगेनोड्डीनः? सागरपक्षिणां गतिसीम्न उल्लङ्घनमिदम् ! !' स्वजातेरितिहासे ऐदम्प्राथम्येनोत्कर्षस्य महानवसरोऽनेनोपकल्पित आसीत्, स्वकृते चैको नूतनो युगः प्रारब्धः । स पुनरपि स्वाभ्यासक्षेत्रे समुत्पत्य अष्टसहस्रपादोच्छ्यात् अवपतनाय सन्नद्धो भूत्वा स्वीयपक्षौ सङ्कोचितवान् । अवपतनं कुर्वता वक्रः परावर्तः कथं ग्रहीतव्य इति ज्ञातुमुत्सुक आसीत् सः, अत एवेमं प्रयोगं समारब्धवान् । पक्षाग्रस्थितमेकमपि पिच्छं यद्यगुलांशामात्रमपि विसर्येत तदा महावेगेनाऽवपतताऽपि सरसः सरलश्च वक्रपरावर्तो ग्रहीतुं सुशक इति बोधात् पूर्वमेव स एतदपि ज्ञातवान् यद् यदि तावति वेगे एकाधिकानि पिच्छानि सञ्चार्येरन् तर्हि तद् राइफल्निसृतगुलिकावच्छरीरं भ्रामयति। विविधान् वायवीयव्यायामप्रयोगान् कृत्वा एवंविधान् तथ्यान् स्वानुभवेन जानन् जोनाथन् सामुद्रविहगेषु सर्वप्रथम आसीत् । तस्मिन् दिने सोऽन्यैः खगैर्वार्तालापेन समयव्ययमकृत्वाऽऽसायमुड्डयनप्रयोगानेवाऽचेक्रीयत । तत्र च मुख्यतया पाशाकारेण अधोमुखं पतनं, मन्दवेगेन सञ्चरता चक्राकारेण पतनं, महता वेगेन वर्तुलाकारं पतनं, विपर्यस्तचक्राकारेण पतनमित्यादय आसन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org