________________
अक्षिणी उन्मील्य यावता तेन स्वीयचञ्चुर्गगने ऊर्ध्वकृता तदाऽपि स षष्ट्यधिकशतवेगेन डयमान आसीत् । तत ऊर्ध्वमुड्डयमानेन तेन शनै: शनैः स्ववेगो विंशतिर्माइल प्रतिघण्टं यावद् मन्दीकृत्य स्वीयपक्षौ विस्तारितौ तावता स चतुःसहस्रपादोच्छ्रये उड्डयमान आसीत् । तावदुच्छ्रयाच्च जलस्था नौकाऽपूपखण्डमिवाऽभासत ।
Jain Education International For Private & Personal Use Only
15
www.jainelibrary.org