________________
सुदूरवर्तिभृगूणामुपरिष्टात् शनैः शनैः परिभ्राम्यन् जोनाथन् फ्लेचर्पक्षिणं निरीक्षमाण आसीत् । तरुणः फ्लेचर् पक्षी रूक्षोऽप्येक आदर्श उड्डयनविद्यार्थी आसीत् । पवने स बलवत्तरो लघुकः शीघ्रगामी आसीत् तथापि विशेषतस्तु तस्योड्डयनशिक्षणाय तीव्रोत्कण्ठाऽऽसीत् । एकस्मिन् तीव्र उत्प्लवनप्रयासे सार्धशतमाइल-वेगं प्राप्य, स्वीयशिक्षकस्य पार्वान्निर्गच्छन् सहसा सोऽन्यस्मिन् प्रयोगे स्वं विनियोजितवान् । स षोडशवर्तुलयुतं पतनमारभ्य सहैवोच्चस्वरेण गणनां कुर्वाणः प्रयोग-मनुवर्तितवान् । '....अष्टमं .....नवमं ..... दशमं .....पश्यतु जोनाथन् ! अहं वायोरपि शीघ्रतरमुड्डयनं कुर्वन्नस्मि..... एकादशं ..... किन्त्वहं भवत इव समीचीनान् तीक्ष्णविरामानपीच्छामि..... द्वादशं .....किन्त्वहो ! कर्तुं न पारयामि..... त्रयोदशं ........ केवल त्रीण्यवशिष्टानि.... चतुर्दशं.... आऽऽऽऽ !! .......' अत्युच्छ्ये प्रभुत्वभ्रंशेन सहसाऽपसरणाद् गतिभ्रष्टः प्रस्खलितश्च स पृष्ठतः पतित्वाऽकस्मादेव विपर्यस्तावर्तेनाऽधोमुखतया विनिपतितुमारब्धः । ततो महता प्रयत्नेन कथमपि तस्माद् विनिवृत्तो रक्षितश्च स श्वासकृच्छ्रमनुभवन् स्वीय प्रशिक्षकात् पादशत-मधस्तादुड्डयमानः स्थिरोऽभवत्। एवं प्रस्खलननेन स्वस्मै एवोग्रतया कुपितः स खिन्नो भूत्वा दुःखोद्गारान् प्रकटितवान्, 'भो जोनाथन् ! भवान् स्वसमयं वृथैव मत्कृते व्ययति । किन्त्वहमस्मि सर्वथा मूढो मूर्खश्च । मन्ये, प्रयत्नशतैरपि तद् नैव प्राप्नुयाम् !!' जोनाथन् अध उड्डयमानं तं दृष्ट्वोपालब्धवान् सशिरोधूननं, 'भो ! यावद् भवान् तद् मृदुतया नैव करिष्यति तावद्भवता तत्र साफल्यं नैव प्राप्स्यते । तथा फ्लेच ! चत्वारिंशन्माइल्-प्रतिहोरं वेगं तु भवानारम्भ एव विगमितवानासीत्, तत् कथं....। अस्तु, पुनरपि करोतु । किन्तु भवता
Jain Education International
For Private 54ersonal Use Only
www.jainelibrary.org