________________
'अरे जोन् !' अन्यदा तन्माता तं पृष्टवती – 'किमर्थमेतत् सर्वं करोषि? अन्येषां सागरपक्षिणामिव जीवनयापने तव किं बाधते ? इतस्तत उपर्यधश्च डयनं पेलिकन्पक्षिणः अल्बाट्रॉस्-पक्षिणश्च प्रकामं कुर्वन्तु नाम । तन्नाऽस्माकं जीवनधर्मो वत्स!। अपरं च त्वं सम्यग् भोजनमपि न करोषि । किमर्थम् ? पश्य तव शरीरं, केवलं पिच्छानि अस्थीनि चैवाऽवशिष्टानि !'
'मातः ! भवन्तु नाम पिच्छान्यस्थीनि चैव, नाऽस्त्यत्र मे काचिच्चिन्ता । मम तु - आकाशे वायौ च किमहं कर्तुं शक्तः किं चाऽहं कर्तुमशक्तः ? - इत्यत्रैव जिज्ञासा वर्तते । मम समग्रमपि अवधानं ज्ञानार्जन एवाऽस्त्यधुना' - जोनाथन् प्रत्युदतरत् । 'किन्तु वत्स जोनाथन् !' तस्य पिता मार्दवेनाऽवदत् - 'शीतकालः सन्निहित एव वर्तते । शनैः शनैरेता धीवरनौका विरलीभविष्यन्ति मीनाश्चाऽपि ऊष्मार्थं गभीरजले सरिष्यन्ति । यदि त्वं शिक्षितुमेवेच्छसि तर्हि तदेव शिक्षस्व येनोदरपूर्णं भोजनं विनाऽऽयासेनैव शीघ्रतया च प्राप्यते । उड्डयनप्रयोगास्तु सुतरां शिक्षणीया एव। किन्तु केवलमुड्डयनेनैव तवोदरं कथं पूरयिष्यते ? वस्तुतस्तूड्डयनमपि उदरपूर्त्यर्थमेव कर्तव्यमस्तीति न विस्मर्तव्यं त्वया ! ।' जोनाथन् सविनयं शिरो विधूय तयोर्वचनमङ्गीकृतवान् । ततः कतिचिद्दिनानि सोऽन्यसागरपक्षिण इव वर्तितुं प्रायतत । सामुद्रसेतुषु धीवरनौकासु च सोऽन्यैः सजातीयैः सह क्रोशन् युध्यमानश्च भक्ष्यमाक्रान्तुं ग्रहीतुं च बहु प्रयतितवान् किन्तु तस्योत्साहो चिरस्थायी नाऽभवत् । कदाचित् कष्टेन किञ्चिद् भक्ष्यं प्राप्याऽनुपदमेवाऽऽगतस्य वृद्धस्य कस्यचिद् बुभुक्षोः पक्षिणः कृते तत् त्यक्तव्यमपि भवति स्म । तदा सोऽचिन्तयत् - 'अहो ! सर्वथा व्यर्थमेतत् सर्वम् । अमूल्यसमयस्य कियान् दुर्व्ययोऽयम् ? इयन्तं कालं यदि उड्डयनशिक्षणे व्यापृतोऽभविष्यं तदा...? कियद् ज्ञातव्यं शिक्षणीयं च वर्तते जीवने !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org