________________
फ्लेचर् लिण्ड् यद्यप्येकस्तरुणः सागरपक्षी आसीत्, किन्तु समाजस्य नैष्ठुर्यमन्यायितां च स सुतरामनुभूतवान् आसीत् । 'किल कदाचिदपि केनाऽपि पक्षिणा सह तदीयसमाजेनेत्थं तु नैव व्यवहृतं स्यात् !' स चिन्तितवान् । तस्य चित्ते कोपविस्फोट इव सञ्जातः ।
'ते यत्किमपि कथयन्तु नाम, अहं तन्नैव गणयामि ।' दूरवर्तिनो भृगून् प्रति उड्डीनस्य तस्य दृष्टिर्बाष्पजलेन मलिनिताऽन्तःकरणं चाऽऽक्रोशशतैर्ज्वलितमिव । 'इतस्ततः कूर्दनात् पक्षास्फालनाच्चाऽप्यधिकं बह्वस्ति शिक्षणीयमुड्डनीयं च । एह्... तत् तु मशकोऽपि करोति । ज्येष्ठसम्मुखं. परिहासरूपेणैव केवलं वर्तुलाकारेणोड्डीनं, तावताऽहं समाजादेव बहिष्कृतः !! किं तेऽन्धलाः सन्ति ? किं ते द्रष्टुमपि न शक्ता: ? किं ते चिन्तयितुमपि न प्रभवन्ति यद् यदा वयं पूर्णतयोंड्डूयनं शिक्षिष्यामहे तदा कीदृश आनन्दः कीदृशी कीर्तिश्च प्राप्स्यते ? नूनं ते जडा एव सन्ति । मद्विषये ते किं चिन्तयन्ति तदहं नैव परिलक्षये । किन्तु उड्डयनं नाम किम् ? - इत्येतदहं तेभ्योऽवश्यं दर्शयिष्यामि । तथा यदीयमेव तेषामपेक्षा तर्ह्यहं सर्वथाऽनैतिको भविष्यामि । यथा च तेषां पश्चात्तापः स्यात् तथाऽहं करिष्यामि.....'
Jain Education International
For Private & Personal Use Only 49
www.jainelibrary.org