SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ शेषं जीवनं तेनैकाकितयैव यापयितव्यमासीत्। परं स दूरवर्तिभृगुभ्योऽपि सुदूरप्रदेशेषु उड्डयनाभ्यासमनुवर्तितवान् । एकान्तवासस्तं सर्वथा नाखेदयत्, किन्तु उड्डयनस्य भव्यतामोजस्वितां च स्वीकर्तुं विश्वसितुमुपलक्षितुं वाऽपि समाजेन यन्निषिद्धं, नेत्रे उन्मील्य निरीक्षितुमपि यत्तैर्नोत्सहितं तत् तं भृशमुद्वेजयति स्म । एवं सत्यपि प्रतिदिनं सोऽधिकाधिकं ज्ञातुं शिक्षितुं च प्रयतते स्म । स्वीयप्रयोगैः सोऽवगतवान् यद् वेगयुतेन प्रवाहसम श्रेणिकेनाऽवमज्जनेन सामुद्रप्रवाहाद् दशपादमधःस्थमपि स्वादु भक्ष्यमन्वेष्टुं ग्रहीतुं च सर्वथा सुकरमिति । इत: परमुदरपूरणार्थं तस्य धीवरनौकानां पर्युषितान्नखण्डानां वाऽपेक्षा सर्वथा नाऽऽसीत् । तथा सूर्यास्तमनसमयादारभ्य सूर्योदयपर्यन्तं सामुद्रमारुतेन सहैव माइल्शताधिकं विहरन् स उड्डयमान एव निद्रां ग्रहीतुं शिक्षितवान् । एवमेव यदाऽन्ये सामुद्रपक्षिणो वर्षा-शैत्यादिकं सहमाना निःसहायतया सागरतटेऽवस्थिता भवेयुस्तादृशीमपि सामुद्रीं गाढमिहिकामतिक्रम्य स तदुपरिष्टात् स्फुरत्प्रभं निरभ्रं स्वच्छं चाऽऽकाशतलमारोहति स्म । महावातेषु झञ्झावातेषु च स सर्वथा निर्भीकतया सुदूरवर्तिषु पर्वतीयान्तरप्रदेशेषु गच्छति स्म यत्र तस्य स्वादु भोजनं सौकर्येणोपलभ्यते स्म । एतत् सर्वमपि स स्वीयान्तरप्रेरणयाऽऽत्मसंयमेन चैव ज्ञातवान् शिक्षितवांश्च । एवं च यत् सर्वं स स्वीयबन्धुभ्योऽपि प्रापयितुमैच्छत् कदाचित् तत् तेनैकेनैव केवलमिदानीं प्राप्तम् । अद्य स उड्डयनस्य स्वामी आसीत्, एतदर्थं च तेन यन्मूल्यं दातव्यमभवत् तस्य खेदलेशोऽपि तन्मनसि नाऽऽसीत् । जोनाथन् - पक्षी अनुभवेन ज्ञातवान् यद्- नीरसता, भयं क्रोधश्च सामुद्रपक्षिणामल्पायुषः मुख्यनिमित्तान्यासन्- अतः स स्वीयान्त:करणांद् दोषानेतान् निर्मूल्य दीर्घकालं यावत् उत्तरोत्तरमूर्ध्वभवन् सुन्दरं निरामयं च जीवनं यापितवान् । Jain Education International For Private &22ersonal Use Only www.jainelibrary.org
SR No.001165
Book TitleSagarvihangam
Original Sutra AuthorN/A
AuthorMeera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy