SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ एतस्य श्रवणमात्रेण स मस्तकोपरि वज्राघातमिवाऽन्वभवत्, तत्पादौ वेपेते स्म, पक्षौ लोहेन मर्दिताविव शिथिलीभूतौ, कर्णौ च पक्षिणामाक्रोशशतैः पूरितौ। 'लज्जास्पदतया पर्षन्मध्ये उपस्थापितोऽहम् !, अशक्यमिदम् !!, मम पराक्रामानवबोद्धुमक्षमा एते नूनं भ्रान्ताः ... भ्रान्ताः ... ! !' स्तब्धतया स चिन्तयन्नासीत्, तत्परितश्च समग्रमपि वातावरणं पक्षिणामाक्रोशैरुपालम्भैश्च व्याप्तमभवत् '... तवाऽविचारिततयोत्तरदायित्वभङ्गाय... सागरपक्षिणां कुलशोभायाः परम्परायाश्चोल्लङ्घनाय...!' सभामध्ये लज्जासमेतमुत्थाप्य कस्यचिदीदृशं भर्त्सनं नाम सागरपक्षिणां समाजात् तस्याऽऽजीवनं बहिष्करणं तटाच्च दूरवर्तिषु भृगुषु एकाकितया निर्वासनम् !! '... एकदा तवाऽपि भानं भविष्यति जोनाथन् ! यद् - उत्तरदायित्वाद् भ्रंशनं न कदाऽपि लाभप्रदं भवति । जीवनं त्वस्माकं सर्वथाऽज्ञातमज्ञेयमेव च, नवरं वयं त्वत्र जगति केवलमुदरपूरणाय, यावज्जीव्यते तावच्च जीवनायाऽवतीर्णाः स्मः', - ज्येष्ठस्तमुपालभत् । यद्यपि समाजस्य पर्षदि ज्येष्ठस्य च समक्षं न कोऽपि सागरपक्षी प्रत्युत्तरं ददाति कदाचिदपि, किन्त्वद्य जोनाथन् निर्भीकतयोत्तेजितो भूत्वाऽगर्जत् - 'उत्तरदायित्वभ्रंशः? कस्य ? बन्धवः ! यो जीवने एकं सार्थकमुच्चं च प्रयोजनमाविष्करोति तदर्थं च प्रयतते तादृशात् सागरपक्षिणोऽपि कोऽधिक उत्तरदायी ? ... युगसहस्रेभ्यो वयं मत्स्यखण्डलुण्टनार्थं युध्यमाना म्रियामहे । परन्तु अद्याऽस्माभिर्जीवनं जीवितुमुत्तमं ध्येयं प्रयोजनं च प्राप्तमस्ति - ज्ञानं, प्रयोगाः, स्वातन्त्र्यञ्च । मया यत् किञ्चिदपि उपलब्धं तदहं भवद्भ्यो संदर्शयितुमिच्छामि, कृपया मदर्थमवसरं वाऽप्येकं कल्पयन्तु ...! !' किन्तु समाजः पाषाणमय इव सञ्जातः आसीत् । '... अस्माकं सम्बन्धः पूर्णो भवति...' पक्षिणोऽवदन् । ततः समकालमेव सर्वेऽपि कर्णौ पिधाय पृष्ठं परावर्तितवन्तः । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001165
Book TitleSagarvihangam
Original Sutra AuthorN/A
AuthorMeera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy