________________
अन्यदा रात्रौ, निश्यनुड्डयमानाः खगाः समुद्रतटे विचारमग्ना: स्थिता आसन् । तावता जोनाथन् स्वीयं सर्वमपि धैर्य सञ्चित्य सर्वेभ्यो वयोवृद्धस्य ज्येष्ठस्य च सागरपक्षिणः पार्वेऽगच्छत् । सोऽचिरादेव लोकमिमं त्यक्त्वाऽन्यस्मिल्लोके गन्ता इति वार्ता तद्विषये प्रचलिताऽऽसीत् । ' च्यांग् ! ...' स किञ्चिद् भीत इवाऽवदत् । 'आम् वत्स !' स्थविरस्तं स्निग्धदृष्ट्याऽवलोकयन् आकारितवान् । वयःपरिणामेनाऽपि तस्य सामर्थ्य वृद्धिमेव प्राप्तमासीत् न तु हासम् । उड्डयने ऊर्ध्वारोहणे च स सर्वानपि पक्षिणोऽतिशेते स्म, तथा यदन्येषां सुचिरमभ्यासेनाऽपि दुष्प्रापमासीत् तत्र तेन सुनैपुण्यं प्राप्तमासीत् । 'च्यांग् ! अदो जगत् स्वर्गं तु नास्ति खलु ?' जोनाथन् पृष्टवान् । कौमुद्यां मधुरं स्मितं कुर्वन् ज्येष्ठोऽवदत् - 'अहो ! भवान् पुनरपि शिक्षितुमारब्धः !' 'आम् सत्यम्, किन्तु इतोऽप्यग्रे किं भवति ? कुत्र वा गमिष्यामो वयम् ? स्वर्गं नाम किञ्चित् स्थलं तु नास्त्येव खलु !!' । 'नैव जोनाथन् !, तादृशं किमपि स्थलं नैव विद्यते । स्वर्ग स्थलकालयोः सीम्नि नास्त्येव । पूर्णत्वप्राप्तिरेव स्वर्गं भोः !' च्यांग उदतरत् । 'भवांस्तु महावेगेनोड्डयते न वा?' क्षणं तूष्णीभूय च्यांग् अपृच्छत् । किञ्चित् क्षुब्धोऽपि 'ज्येष्ठेन निध्यात' इति गौरवमनुभवन् जोनाथन् 'अहं ... अहं वेगं प्रीणामि' इत्युक्तवान् । 'भोः ! यस्मिन् क्षणे भवान् पूर्णवेगं प्राप्स्यसि तस्मिन्नेव क्षणे भवान् स्वर्गे भविष्यसि । किन्तु जोनाथन् ! पूर्णवेगो नाम न माइल्-सहस्रं माइल्-लक्षं वा प्रतिहोरं वेगः, न वा प्रकाशगत्याऽप्युड्डयनम् । यतः सङ्ख्या नाम सीमा। पूर्णत्वस्य तु सीमैव नास्ति । पूर्णवेगः - पूर्णगतिर्नाम इदानीमत्र चैव भवितव्यम्' च्यांग् तमबोधयत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org