________________
अथ च सहसैव च्यांग् अदृश्यो जातः क्षणार्धेन च पञ्चाशत्पादान्तरे जलसमीपेऽदृश्यत । ततश्च सहस्रतमे क्षणांशे एव जोनाथन्-पार्वे समागतः । 'क्रीडामात्रमिदं भोः !' सोऽवदत् । जोनाथन् तु विस्मयमूढो जातः । स्वर्गगोचरान् स्वप्रश्नान् सर्वथा विस्मृत्य 'ज्येष्ठ ! कथमिदं कुरुते भवान् ? एतत् कीदृगनुभूयते? एवं च कति दूरं भवान् गन्तुं क्षम: ?' इत्यादिप्रश्नानामावलिमेव प्रस्तुतवान् । 'जोनाथन् ! भवान् यत्र कुत्राऽपि स्थले काले वा जिगमिषुस्तत्र सर्वत्र सर्वदा च गन्तुं समर्थः । अहं तु, यद्यत् स्थलं यश्च कालो मया विकल्पितस्तत्र सर्वत्र सर्वकालं चाऽहं गतोऽस्मि' च्यांग् अकथयत् समुद्रोपरि दृष्टिपातं कृत्वा चाऽनुवर्तितवान् – 'ननु विचित्रमिदम् । ये सागरपक्षिणः पूर्णत्वमुपेक्ष्य प्रवसन्त्येव केवलं ते कुत्राऽपि गन्तुं न प्रभवन्ति । ये च प्रवासमेकतः कृत्वा पूर्णत्वमेव प्राप्तुं यतन्ते ते तु क्षणमात्रेणैव यत्र तत्र सर्वत्राऽपि गन्तुं समर्थाः । स्मरतु सदैतत् यत् - स्वर्गं नाम न स्थलं नैव कालो वाऽपि । यतः स्थल-कालौ तु सर्वथा निरर्थकौ । स्वर्गं तु ...' 'किं भवान् मामपीदृशमुड्डयनं शिक्षयेद् वा?' मध्ये एव जोनाथन् पक्षी अन्यदपि अज्ञातमाक्रान्तुमुत्तेजितोऽभवत् । 'सुतरां, यदि भवान् शिशिक्षिषेत् !' च्यांग् अवदत् । 'अहं त्विच्छाम्येव, कदा प्रारभेवहि ?' 'अधुनैव !' एतच्छ्रुत्वा जोनाथन्-पक्षिणोऽक्षिणी विस्मयस्मेरे अभवताम् । 'अहो ! धन्योऽहम् । कथ्यतां कृपया, किं कर्तव्यं मया ?' तरुणं जोनाथन्-पक्षिणं स्निग्धदृष्टयाऽवलोकयन् च्यांग् अतीव मृदुतयाऽवदत् - 'यत्र कुत्रचिदपि चिन्तनानुगुणवेगेनोड्डयितुं भवता “अहं सर्वथा तत्र प्राप्तोऽस्मि" इति जानतेव प्रारब्धव्यम् । अत्र युक्तिस्त्वेषा
Jain Education International
For Private Personal Use Only
www.jainelibrary.org