________________
स पादसहस्रमूर्ध्वमुड्डीय स्वीयपक्षौ कठिनतयाऽऽस्फालयन् धूमकेतुवत् समरेखायामवतरणं कर्तुं प्रयतितवान् बोधितवांश्च यत् किमर्थं सागरपक्षिण ईदृशमवतरणं न कुर्वन्तीति । यतः केवलं षड्भिः क्षणैरेव स प्रतिघण्टं सप्ततिमाइल-मितां गतिं प्राप्तवान् । एतावती गतिरेव सामुद्रपक्षिणां दुर्लभा, तथा तावत्यां गतौ कोऽपि सागरपक्षी स्वीयपक्षौ समतया सन्धारयितुं न समर्थः । अयमपीदृशीमवस्थां वारं वारं प्राप्तवान् । अतीव सावधानतया यद्यपि स प्रायतत, तथापि निजसर्वसामर्थ्यमुपयुञ्जानोऽपि तावत्यां गतौ स नियन्त्रणाद् भ्रश्यति स्मैव। तथाऽपि पुनरपि स तमेव प्रयत्नमारभ्य 'काऽत्र क्षतिः स्वस्ये'ति अवबोद्धं प्रयतते स्म । पादसहस्रमारुह्य समग्रवेगेन सममुड्डयनं ततश्च पक्षावास्फाल्य समरेखमवरोहणम् । किन्तु, प्रतिप्रयत्नं प्रथमं तस्य वामपक्ष आघातेनाऽस्थिरो भूत्वा संकुचति स्म सोऽपि च प्रचण्डवेगेन तस्यामेव दिशि सभ्रमणमधोमुखतया पतति स्म । अथ किञ्चित् स्वस्थो भूत्वा दक्षिणपक्षेण प्रयतमानः तस्यां दिश्यपि वर्तुलाकारं भ्रमन्नग्निगोलकवद् विनिपतति स्म । अस्मिश्च पतने स आघातमसहमानः स्वस्थः सावधानश्च भवितुं न शक्नोति स्मैव । तथापि स प्रयत्नानावर्तयत्येव स्म। प्रायो दशवारं तेन तदेव कर्तुं प्रयतितं, किन्तु प्रतिप्रयत्नं स प्रतिहोरं सप्ततिमाइल्-मितं वेगं प्राप्याऽपि नियन्त्रणाद् भ्रष्टः सन् मथितपक्षसमूहवत् जले पतित एव। अन्ते गलद्विन्द्वान॒शरीर: सोऽचिन्तयद् यद् 'नूनमत्र कश्चिदुपायोऽन्वेष्टव्य एव, आम् ! ज्ञातं, मया महत्तमं वेगं प्राप्य पक्षौ स्थिरीकर्तव्यौ – प्रतिहोरं पञ्चाशत्माइल्-मितं वेगं यावत् पक्षौ चालयितव्यौ ततश्च स्थिरीकर्तव्यौ ।' अस्यां वेलायां स द्विसहस्रपादोन्नति प्राप्य प्रयत्नमारब्धवान् पञ्चाशत्माइल्-वेगं प्राप्य स चञ्चुपुटं नीचैःकृत्य पक्षौ च पूर्णतया प्रसार्य
Jain Education International
For Private Personal Use Only
www.jainelibrary.org