________________
(अस्य पुस्तकस्य गूर्जरगिरा सारानुवादका श्रीमत्या मीरा-भट्टमहोदयया स्वानुवादारम्भे लिखितः प्रवेशकोऽप्यत्राऽनूद्यते ।) बहूनि वर्षाणि व्यतीतान्यस्य । कदाचिदहं रेल्यानद्वारा बिहारअसमराज्ययोः प्रवासं कुर्वत्यासम् । कुत्रचित् स्थानके रेल्कक्ष्यवातायनाद् मया पुस्तकविक्रेतुः पावें 'Jonathan Livingston Seagull' पुस्तकं दृष्टम् । अस्य पुस्तकस्य वैश्रुत्यं पूर्वमेवाऽहं श्रुतवत्यासमतस्तत्क्षणमेव तत् क्रीत्वा वारं वारं पठितवती सुहृदां च तदास्वादानं कारितवती । एतावता 'नवनीत' सामयिकस्य सम्पादिकया श्रीमतीकुन्दनिकामहोदययाऽस्य पुस्तकस्य सारसंक्षेपं कर्तुमनुरुद्धाऽहम् । अथ च सुजैौजरैः सादरं सप्रेम च गूर्जरपरिवेशप्राप्तं 'सागर-पंखी' ति पुस्तकं स्वीकृतम्। जोनाथन् एको लघुक: सामुद्रपक्षी अस्ति । किन्तु साधारणसागरपक्षिभ्यः स कथञ्चिद् विशिष्टोऽस्ति । यदा तस्य साजात्या भक्ष्यान्वेषणे निरता भवन्ति तदाऽयमौन्नत्यं प्राप्तुं प्रयतते । अभिलषत्ययं पक्षी व्योम्न्युच्चतम लक्ष्यं साधयितुं, पारावारमुल्लङ्घयितुं, दूरस्थान् क्षितिजान् संस्पृश्याऽऽकाशगामिनो गिरिकन्दरांश्चाऽऽरोढुम् !! इयं कथा त्वेकं रूपकमस्ति । वस्तुतस्त्वस्माकमात्मपक्ष्येव सागरपक्षी अस्ति । अस्मासु केचिज्जना जन्मत एव तादृगन्तःसत्त्वयुता भवन्ति येषां पक्षौ विकासार्थं सततं परिस्पन्देते । जीवनस्य सर्वविधमप्यौन्नत्यं सर्वाऽपि गभीरता, नि:सीमोऽपि च विस्तारस्तेषामत्यल्पः प्रतिभाति । उच्छ्रयो गाम्भीर्यं व्यापश्चेत्येतेषां त्रयाणां परिमाणानामप्यगोचरं तत्त्वं स्वसात् कर्तुं सर्वेणाऽप्यात्मवीर्येण मथनमित्येव तेषां जीवनस्य परमप्राणायते । जीवनयात्रा नाम किमप्येकमेव विरामस्थानमिति न । नित्यं निरन्तरं च नूतनलक्ष्याणि यदुद्घाटयेत् तदेव जीवनम् । एकस्मिन्नूने लक्ष्ये सागरपक्षी वयोवृद्धं गुरुतुल्यं ज्येष्ठं च्यांग्-पक्षिणं पृच्छति - ‘च्यांग् ! कृपया सत्यं वदतु, एतत् तु स्वर्गं नास्त्येव खलु !' स्वर्गं नामाऽन्तिमं लक्ष्यम् ।
Jain Education International
For Private personal Use Only
www.jainelibrary.org