________________
अथ कियच्चित्कालानन्तरं फ्लेचर्पक्षी स्वमेवाऽऽकाशे उन्नीतवान्, तत्र च प्रथमपाठशिक्षणायोत्सुकं नवीनतमं विद्यार्थीयूथं सम्मुखीकृतवान् ।
'प्रारम्भे तु भवद्भिरेतत् स्थिरीकर्तव्यं निजचित्ते, स गभीरतयाऽवदत्, 'यत्प्रत्येकं सागरपक्षी स्वातन्त्र्यस्य निःसीमो विचारोऽस्ति महासागरपक्षिण एव प्रतिकृतिरस्ति सः, तथा वामपक्षाग्राद् दक्षिणपक्षाग्रं यावद् यद् भवतां शरीर तत्तु केवलं विचारा एव, नाऽन्यत् किञ्चित् ।'
तरुणाः पक्षिणस्तं प्रश्नसूचकदृष्ट्या पश्यन्त आसन्, 'अहो ! अयं तु नास्ति कश्चिदुड्डयननियमः !' तैश्चिन्तितम् ।
दीर्घं निःश्वस्य फ्लेचर् अग्रेऽवदत् 'हम्..... बाढं तावत् ! ।' ततो विवेचिकया दृष्ट्या तान् पश्यन् कथितवान् - 'चलन्तु... प्रथमं क्षितिजसमान्तरोड्डयनेन प्रारभामहै।' इदं च वदतैव स तत्क्षणमेव स्पष्टतया बोधितवान् यत् तस्य मित्रं जोनाथन् स्वस्मात् प्रामाणिकतयाऽधिकदिव्यो नाऽऽसीत् ।
'सीमानः खलु न सन्ति, जोनाथन् !?' स चिन्तितवान् । 'अस्तु तावत्, नास्ति दवीयसी सा वेला यदाऽहं वायोः प्रतनुकं स्तरं भेदयित्वा भवदीये समुद्रतटे प्रादुर्भूय भवते द्वित्रान् उड्डयनप्रयोगान् दर्शयिष्यामि । '
अथ च यद्यपि स स्वीयविद्यार्थिनां समक्षं गभीरतया कठोरतया च वर्तितुं प्रायतत, किन्तु सहसा स तान् सत्यस्वरूपेण द्रष्टवान्, क्षणमात्रमेव । ततश्च स तान् पूर्वतोऽप्यधिकतया गाढतरं च प्रीयते स्म । 'सीमानो न सन्ति खलु, जोनाथन् !?' इति विचिन्त्य स मन्दं हसितवान् । ज्ञानार्जनार्थं तस्य'स्पर्धाऽद्य प्रारब्धाऽऽसीत् ।
77
Jain Education International For Private & Personal Use Only www.jainelibrary.org