________________
चिन्तिततवन्तो यत् कुत्र वयं प्रस्थिताः, केवलं तादात्विकसुखाभासरता वयं तत्तत्क्षणेष्वेव जीविताः । उदरपूरणात् कलहाद् नेतृत्वप्रापणादपि किञ्चिदधिकमपि जीवनेऽस्तीति ज्ञानमस्माकं कतिजन्मनामनन्तरं जातं तद् भवान् कथं जानीयात् खलु ? शतशो जन्मानि, जोनाथन् ?, नहि नहि, सहस्रशो जन्मानि तज्ज्ञातुं व्यतीतानि । पूर्णताभिधानाऽपि किञ्चिद् वस्तु जीवनेऽस्तीति भानं तु ततोऽपि जन्मशतानन्तरं जातम् । तथा जीवनस्य ध्येयं तु परिपूर्णता प्राप्तिरस्ति - इति ज्ञातुमन्येभ्यश्च बोधयितुमन्यान्यपि जन्मशतानि व्यतीतानि । अथ चेहाऽप्यस्मदर्थं स एव नियमोऽस्ति यदस्मिन् जीवने यद् वयं शिक्षेमहि तदाश्रित्यैवाऽस्माकमागामि जीवनं निश्चीयते । यदि किञ्चिदपि न शिक्षेमहि तदा भावि विश्वमपि एतत्तुल्यमेव भविष्यति - समाना एव मर्यादाः ! समानानि च बन्धनानि ।' 'किन्तु जोन!' स पक्षौ प्रसार्य पवनसम्मुखो भूत्वा चोक्तवान्,' 'भवान् त्वेकस्यामेव वेलायां तावत् शिक्षितवान् अभ्यस्तवांश्च यद् भवताऽत्र प्राप्तुं सहस्रशो जन्मानि व्ययितव्यानि नाऽभवन् ।' ततः पुनरपि तौ वायावुत्प्लुत्योड्यनाभ्यासरतावभवताम् । इदानीं तेनाऽऽकाशे एव विविधा दोलाः कर्तव्या अभवन् । ताश्च कठिनतमा आसन् यतस्तासामधस्तनेऽ(शे तेन स्वप्रशिक्षकेण सहैवैकाकारतया स्वपक्षावर्तं विपर्यास्याऽधोमुखतया चिन्तयितव्यमासीत् । 'पुनरपि प्रयतेवहि' इति वदन् सलीवन् वारं वारं तस्यैवाऽभ्यासमनुवर्तितवान् । प्रान्ते 'बाढम्' इत्युक्त्वाऽन्यत्र प्रयोगे तं नियोजितवान् ।
36 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org