SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ एव तेषां, यत उदरपूरणमेव तेषां जीवनकृत्यं न तूड्डयनम् । किन्तु अस्य कृते त्वेतद् वस्तु वैपरीत्यमभजत् । यतोऽस्य जीवनकृत्यं तूड्डयनमेवाऽऽसीत् न तु भोजनमपि । अन्यत् सर्वमपि विस्मृत्य स उड्डयनायैव स्निह्यति स्म। अथ च तस्येदृशं वर्तनं दृष्ट्वाऽन्ये पक्षिणस्तस्य सम्पर्क निवारयन्तीति तेनाऽनुभूतम् । किं बहुना ? यावत् तस्य पितरावपि - स्वपुत्रः शतश उड्डयनप्रयोगेष्वेव समादिनस्य दुर्व्ययं करोतीत्यवलोक्य खिन्नौ भवतः स्म । तथाहि - यदा स जलोपरि स्वपक्षा(शोच्छ्रयेण उड्डयते स्म तदा सोऽल्पायासेनैव दीर्घकालं यावत् पवनेऽवस्थातुं शक्तो भवति स्म । यदा च स आकाशाज्जलेऽवरोहणं करोति स्म तदा सामान्यमवरोहणमकृत्वा स्वीयपादौ गाढं सम्मेल्य जले दीर्घरेखां प्रकुर्वन् अवरोहति स्म । एतद् एतादृगन्यच्च सह्यमप्यासीत्, किन्तु यदा स तटसिकतायामपि तथैवाऽवरोहणं कर्तुमारब्धस्तदा तत्पितरौ नितरां रुष्टौ अभवताम् । Jain Education International For Private rsonal Use Only www.jainelibrary.org
SR No.001165
Book TitleSagarvihangam
Original Sutra AuthorN/A
AuthorMeera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy