________________
रास्तु तैरवबास नैव प्रविन, किन्तु वासस्म।
प्रत्यहमुड्डयनानन्तरं तटे विश्राम्यतो विद्यार्थिनो जोनाथन् बोधयति स्म । तेऽपि चाऽत्यन्तमवहिततया तं शृण्वन्ति स्म, किन्तु तस्य केचिद् विचित्रविचारा एतेषां मानसे नैव प्रविशन्ति स्म, यद्यपि, केचित् सुन्दरविचारास्तु तैरवबुध्यन्ते स्म चाऽपि । शनैः शनैः रात्रिषु विद्यार्थिनां वर्तुलाद् बहिरन्यदपि वर्तुलं सञ्जनितुमारब्धम् । परस्परमन्येषां दृष्टपथमागन्तुमनिच्छवो बहवो जिज्ञासवः सागरपक्षिणो जोनाथन्पक्षिणो वचांसि सूचनानि च श्रुत्वा तमसोऽपगमात् पूर्वमेव निवर्तन्ते स्म। मासानन्तरं तु ऐदम्प्राथम्येन समाजात् कश्चन पक्षी सीमानमुल्लङ्घ्य जोनाथन्पार्वे समागत उड्डयनशिक्षणार्थं च विज्ञप्तिं कृतवान् । एतावतैव सोऽपराधी जातः समाजाच्च बहिष्कृतः । एतेन जोनाथन्पक्षिण: टेरेन्स् लोवेल्नामाऽष्टमो विद्यार्थी प्राप्तः । अनन्तरितरात्रावेव, पदे पदे प्रस्खलन्, अकर्मण्यं च स्वीयं वामपक्षमाकृषन् कर्क् मेनार्ड्सपक्षी समुदायादागत्य जोनाथन्पादयोः धसिति पतितः, 'कृपया सहायं करोतु....', स दीनतयाऽवदत्, 'अहं मम जीवने उड्डयनाद् ऋते नाऽन्यत् किमपि कर्तुमिच्छामि, कृपया....' । 'आगच्छतु तर्हि, मया सहैव भूमेरुत्प्लवनं करोतु, आवामधुनैवोड्डयनमारभेवहि !' जोनाथन् अकथयत् । 'भवान् मम परिस्थितिं नैवाऽवबुध्यते । मम पक्षं पश्यतु, अहं तं चालयितुमप्यशक्तोऽस्मि ।'
66 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org