________________
'उत्तमम् ! !' च्यांग् अवदत् । तस्य शब्दे च विजयो ध्वन्यते स्म । जोनाथन् नेत्रे उन्मीलितवान्, तावत् स्वं ज्येष्ठेन सहैकाकिनमेव कस्मिंश्चिद् सर्वथा भिन्न एव समुद्रतटे संस्थितं प्राप । तत्र वृक्षा जलधारां संस्पृश्य स्थिता आसन् गगने च सुवर्णवर्णों द्वौ सूर्यो परिक्रामतः स्म । 'आह् ! अन्ते साधितं तद् भवता ।' च्यांग् उक्तवान्, ‘परं तस्य दायसम्पादनार्थमितोऽप्यभ्यास आवश्यकः...' 'आवा कुत्र स्वः ?' दिङ्मूढो जोनाथन् अपृच्छत् । अपरिचितवातावरणेन सर्वथाऽप्रभावित: च्यांग मृदुलैः शब्दैरुदतरत् – 'आवामन्यस्मिन् ग्रहे स्वो यत्र नभो हरितवर्णमस्ति रवेः स्थाने च ताराद्वयमस्ति ।' आनन्दितो जोनाथन् उच्चैर्हर्षघोषं कृतवान्, पृथ्व्या आगमनानन्तरमैदम्प्राथम्येन स ध्वनिमिमं कृतवानासीत् 'अहो सिद्धमेतत् !!' 'सुतरामेतत् सिद्धं जोन !' , च्यांग् अवदत्, ‘एतत् सर्वदा सिध्यत्येव, यदा भवान् जानाति यत् “किमहं कुर्वन्नस्मि" । इदानीं तस्य दृढीकरणम्...' यदा तौ प्रतिनिवृत्तौ तदा गाढं तमः प्रसृतमासीत् । अन्यैः पक्षिभिस्तु भयमिश्रितादरेण जोनाथन् अवलोकितः, यतस्तैः सर्वैः चिरकालमेकत्र स्थितोऽपि स सहसाऽदृश्यीभवन् दृष्ट आसीत् । सर्वैः सम्मील्याऽभिनन्दितोऽभिवादितश्च स नम्रतयाऽवदत् - 'अहो ! भवन्तः सर्वेऽपि मत्तो ज्ञानवृद्धाः सन्ति । अहं तु नूतनो विद्यार्थी प्रारम्भकश्चाऽस्मि । मया हि भवद्भयः सकाशात् प्रभूतं शिक्षितव्यं वर्ततेऽद्याऽपि।' तावता समीपे स्थितः सलीवन् उक्तवान् - 'जोन ! भवद्विषयेऽहं सदाऽप्याश्चर्यमुग्धोऽस्मि । यतो मया दशसहस्रेषु वर्षेष्वपि भवादृशः पक्षी न दृष्टः कदाचिद्, यस्य नूतनान् अज्ञातांश्च प्रदेशानाक्रान्तुं
Jain Education International
For Private 42ersonal Use Only
www.jainelibrary.org