Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text ________________
....महासागरपक्षिण एक एव पुत्रो न वा ?' दीर्घ निःश्वस्य जोनाथन् उक्तवान् । ततः समुद्रं विलोकयन्, 'अतः परं भवते ममाऽऽवश्यकत्ता नास्ति । भवता तु स्वयमेव स्वं प्राप्तुं, निज सत्यस्वरूपं यथार्थतयाऽवबोद्धं, निःसीमं च फ्लेचर्पक्षिणं प्रकटयितुं प्रत्यहमधिकाधिकतया प्रयतनीयम् । स एव भवतो वास्तविको गुरुः । तस्यैवाऽवगमनमभ्यासश्चाऽऽवश्यकोऽस्ति भवते ।' क्षणानन्तरमेव जोनाथन्पक्षिणः शरीरं वायौ दोलायितं सकम्पं चाऽदृश्यं भवितुमारब्धम् । 'कृपया मद्विषायिकी: क्षुद्राः किंवदन्तीः प्रसारयितुं तेभ्योऽवसरं मा दात्, मां वा भगवत्तया मा पूजयेत्, अवगतं फ्लेच ! अहं त्वेक: सामान्यः सागरपक्षी अस्मि । उड्डयनं मे रोचते, यद्यपि.......' 'जोनाथन् !!!' 'वत्स फ्लेच ! स्वनेत्रयोरपि विश्वासं मा कार्षीत् । ते तु केवलं सीमायां बद्धमेव दर्शयितुं क्षमे । स्वीयबोधेनैव द्रष्टुं प्रयतताम्, यच्च यावच्च भवान् जानाति तन्मार्गयतु, भवान् उड्डयनस्य मार्ग स्वयमेव प्राप्स्यति ।' कम्पनं शमितम् । जोनाथन् शून्यावकाशे विलीन आसीत् ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 80 81 82 83 84 85 86 87 88 89 90