Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text ________________
अनन्तरे प्रात:काले तु सर्वेऽपि पक्षिणः स्वीयामुन्मत्तावस्थां विस्मृतवन्त आसन्, किन्तु फ्लेचर् नैव विस्मृतवान्, 'जोनाथन् ! भवतोक्तमासीद् यत् - स्वीये समाजे तावत् स्नेहनीयं यथा तत्र प्रतिनिवर्त्य तेषामुच्चशिक्षणाय साहाय्यं कर्तव्यं, स्मर्यते नन्विदम् ?'
'अथ किम् ?'
'किन्तु तस्मिन् पक्षिसमूहे स्नेहो वा कथं भवेद् यः सद्य एव भवन्तं हन्तुमुद्यत आसीत् ? नाऽहमेतदवबुध्ये कथमपि !'
'अहो फ्लेच ! मा करोतु तत्र स्नेहम् ! सर्वथा मा स्त्रिह्यतु विद्वेषे दुष्टतायां च। अस्माभिस्तु प्रत्येकं तेषां सत्यस्वरूपस्य सत्तत्त्वस्य च दर्शनायाऽभ्यासः कर्तव्य:, ते चैतद् द्वयमपि स्वयमेव यथा जानीयुः पश्येयुस्तथा तेषां साहाय्यं करणीयम् । एतदैव मम प्रेमतया - सत्यस्नेहतयाऽभिप्रेतम् । यदा भवानेतत्करणे निपुणो भवेत् तदा त्वत्र भूयानानन्दोऽनुभूयते । ' ‘उदाहरणार्थम् – अहमेकमुग्रस्वभावं युवपक्षिणं जानामि । तस्य नाम - फ्लेचर् लिण्ड् सागरपक्षी अस्ति सद्य एव समाजाद बहिष्कृतः स आमरणं समाजेन सह योद्धुं दूरवर्तिभृगुषु च स्वयमेव स्वीयं रौरवं नरकं रचयितुं सिद्ध आसीत् । किन्त्वद्य स एव स्वीयं सुन्दरं स्वर्गं विरचयन् समग्रं समाजमपि तत्रैव प्रापणाय नेतृत्वं कुर्वन्नस्ति । '
फ्लेचर् जोनाथन्पक्षिणं प्रति परावृत्तः । तस्य चक्षुषोर्भयस्य रेखाऽऽसीत् 'नेतृत्वं ? मयि ? कोऽत्राऽऽशयो भवतः ? भवानेवाऽत्र प्रशिक्षकोऽस्ति । भवानितो गन्तुं नैवाऽर्हति ।'
T
-
'कथं न ? किं भवान् न जानाति यदत्रेवाऽन्यत्राऽपि अन्येऽपि बहवः पक्षिसमाजा बहवः फ्लेचर्पक्षिणोऽपि च स्युरेव येषां प्रशिक्षकस्याऽऽवश्यकता इतोऽप्यधिका स्यात् ? अयं समाजस्तु प्रगतिपथं प्राप्याऽद्य प्रकाशं प्रति प्रस्थितोऽस्ति...।'
जोन् !
'किन्तु अस्मि... भवांस्तु....'
Jain Education International
अहं तु केवलमेकः सामान्यः सागरपक्षी
For Private & Personal Use Only 74
www.jainelibrary.org
Loading... Page Navigation 1 ... 79 80 81 82 83 84 85 86 87 88 89 90