Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text ________________
अथैकस्मिन् प्रभाते महावेगयुतोड्यनाभ्यासानन्तरं फ्लेचर् जोनाथन्पक्षिणमकथयत् – 'ते वदन्ति समाजे यद् भवान् साक्षात् महासागरपक्षिणः पुत्रोऽस्ति, अथ च भवान् अस्मत्त: सर्वेभ्योऽपि समयापेक्षया वर्षसहस्रमग्रेतनः इति ।' जोनाथन् दीर्घ निःश्वस्य चिन्तितवान्, 'अन्यथा चिन्तनस्य मूल्यमितोऽपि दातव्यं खलु !'; 'तेऽस्मान् देववत् पूजयन्ति वा राक्षसं वा मन्यन्ते', स फ्लेचर्पक्षिणमुक्तवान्, 'भवान् किं मन्यते ? किमावां समयापेक्षयाऽग्रेतना वा?'। दीर्घमौनानन्तरं फ्लेचर् अवदत्, 'नन्वीदृशमुड्डयनं शिक्षितुं यः कोऽपि इच्छेत् स सर्वदा सर्वथा च समर्थः, समयापेक्षा त्वत्र नास्त्येव । एतत् तु सत्यमेव यदावां परम्परातस्तु नितरामग्रेसरा एव । गतानुगतिकतया ये उड्डयन्ते तेभ्योऽपि वयं सर्वथाऽग्रेतना एव ।' 'एतत् तु शुभचिन्तनं भोः !' विपर्यस्तोड्डयनप्रयोगं कुर्वाणो जोनाथन् अवदत्, “समयतोऽग्रेतनत्वतस्तु सर्वथोत्तमम् ।'
Jain Education International
For Private 9 Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90