Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text ________________
मेनार्ड्सक्षिन् ! भवान् स्वीयं स्वरूपं - सत्यस्वरूपं प्राप्तुमत्रैव - इदानीमेव च सर्वथा स्वतन्त्रोऽस्ति । विश्वस्य काचिदपि शक्तिस्तद् बाधितुं न समर्था । अयं तु महासागरपक्षिणो नियमोऽस्ति.... निरपवादो नियमः !!' 'अहमुड्डयितुं समर्थोऽस्मि - इति भवान् वदति ?' 'अहं कथयामि यत् – भवान् मुक्तोऽस्ति ।' अतीव सहजतया शीघ्रतया च कमेनार्ड्सक्षिणा निरायासमेव स्वपक्षौ विस्तारितौ, अत्यन्तं सरलतया च तामिस्र पवने उत्पत्य स उड्डीनः । पञ्चशतपादोपरिष्टात् कृताभिस्तस्य हर्षगर्जनाभिः सर्वोऽपि पक्षिसमाजो निद्रातो जागृतः, 'अहमुड्डयितुं शक्नोमि, अरे! शृण्वन्तु सर्वे! अहमुड्डयने
सर्वथा समर्थोऽस्मि !!' Jain Education International For Private 83ersonal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90