Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 67
________________ एतद् दृश्यं दृष्ट्वा सर्वोऽपि सामुद्रपक्षिणां समाजः स्तब्धो जातः । नित्यं वर्तमाना विरावाः कर्कशकूजनानि च स्थगितानि । अष्टौ सहस्रं नेत्राणि तद् द्रष्टुमनिमेषाणि सञ्जातानि । इत एकैकशोऽष्टावपि पक्षिणस्तीक्ष्णावर्तेनोर्ध्वमुखीभूय पूर्णपाशाकारेण च सर्वत उड्डीय शनैः शनैः समुद्रतटेऽवतीर्णाः स्थिताश्च । ततश्च दैनन्दिनकार्यक्रमोऽयमेव यथा स्यात् तथा सहजतया तटसिकतायां जोनाथन्पक्षी स्वीयमुड्डयनविषयकं समालोचनं प्रारब्धवान् । 'अद्य उड्डयनारम्भे...', स व्यङ्गमिश्रितस्मितं कुर्वन्नुक्तवान्, 'भवन्तः सर्वेऽपि किञ्चिद् विलम्बिता जाताः.....' Jain Education International 60 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90