Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text ________________
एकमासानन्तरं जोनाथन् उक्तवान् यद्, 'बन्धवः ! इदानीं समाजे प्रतिनिवर्तनस्याऽवसरः प्राप्तोऽस्ति ।' । 'किन्तु वयं न सिद्धास्तत्र गन्तुम् !' हेन्री काल्विन् अकथयत्, 'तत्राऽस्माकं स्वागतं नास्ति, प्रवेशोऽपि नास्ति, यतो वयं बहिष्कृताः स्मः। यत्राऽस्माकं स्थानं मानं वा न स्यात् तत्र किमर्थं वाऽस्माभिर्गन्तव्यम् ?' 'वयं यथेप्सितुं विहर्तुं यथास्वं च भवितुं सर्वथा स्वतन्त्राः स्मः भोः !' इत्युक्त्वा जोनाथन् समुद्रतटादुड्डीय पूर्वदिशि च परावृत्य पक्षिसमाजस्य निवासस्थानं प्रति प्रस्थितः ।। एतेन तस्य विद्यार्थिनां मनःसु विक्षोभ इव सञ्जातः । यतो - य एकदा समाजाद् बहिष्कृतः स्यात् स कदाऽपि समाजे पुनरागन्तुं नैवाऽर्हति - इति समाजस्य नियम आसीत् । प्रायो दशसहस्रवर्षेभ्यो न केनाऽप्यस्य नियमस्य भङ्गः कृतः । नियमो वदति 'नाऽऽगन्तव्यम्', किन्तु जोनाथन् वदति स्म, 'आगच्छन्तु !', एतावता च जोनाथन् समुद्रोपरि माइल्-दूरं गतवानासीत् । यद्येते इतोऽप्यधिकं कालं यापयेयुस्तदा जोनाथन् एकाक्येव निष्ठुरं समाजं प्राप्नुयात् । 'ननु यदि वयं समाजस्य सभ्या एव न स्याम तर्हि किमर्थमस्माभिस्तस्य नियमाः पालनीयाः ?', फ्लेचर पक्षी स्वीयभानेनोक्तवान् । 'किञ्च यदि योद्धव्यं भवेत् तदा इतोऽपि वयं तत्रैव भृशमुपयोगिनो भवेम।' अथ च, सर्वेऽपि तेऽष्टौ पक्षिणस्तस्मिन् प्रभाते वज्राकारपङ्क्तौ परस्परं पक्षान् समाच्छादयन्तः प्रतीचीत उड्डीय समाजं प्रति प्रस्थिताः, जोनाथन्पक्षिणो नेतृत्वमनुसरन्तश्च ते १३५माइल्-वेगेन समाजो यत्र निवसति स्म तस्मिन् समुद्रतटे समागताः । जोनाथन्पक्षिणो दक्षिणपार्श्वे फ्लेचलिण्डपक्षी आसीत् वामतश्च तेजस्वी हेन्री काल्विन् आसीत् । सर्वेऽपि ते पवनाघातान् विषहमाणाः - एकः समान्तरः, एको विपर्यस्तः, एकः समान्तरः - इति क्रमेण, दक्षिणतः संसृताः ।
Jain Education International
For Private
personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90