Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 64
________________ मासत्रयस्याऽन्ते त्वन्येऽपि षट् पक्षिणो जोनाथन्पक्षिणो विद्यार्थितां प्रतिपन्नाः । सर्वेऽपि ते समाजाद् बहिष्कृता आसन्, तथापि केवलमुड्डयनानन्दप्राप्त्यर्थमेवोड्डयनस्य नूतनोऽयं विचारस्तेषां मनःसु सुबहु कुतूहलमजनयत् । यद्यप्येतेषामुच्चतरप्रयोगाणामभ्यासस्तेषां कृते सरल आसीत्, तथापि तेषां रहस्यं मूलं प्रयोजनं चाऽवगन्तुं ते इतोऽपि समर्था नाऽऽसन् । 'वस्तुतस्तु प्रत्येकं सागरपक्षिणि महासागरपक्षिण एव स्वरूपं निहितमस्ति, स्वातन्त्र्यस्य निःसीमं स्वरूपम् !' जोनाथन् रात्रिषु स्वविद्यार्थिनो बोधयति स्म; 'यथार्थं समीचीनं चोड्डयनमस्माकं सत्यस्वरूपस्य प्रकटीकरणाय सोपानमेवाऽस्ति । यत् किमपि अस्मान् बध्नीयादवरुन्ध्याद् वा तत्सर्वमेकतः कर्तव्यम् । तदर्थमेव चैते शीघ्रगतिकोडयनमन्दगतिकोड्डयनवायवीयव्यायामादिप्रयोगाणामभ्यासः ....' ......आदिनमुड्डयनाभ्यासैः श्रान्तास्तद्विद्यार्थिनस्तु सर्वमेतत् शृण्वन्तः एव निद्राधीना भवन्ति स्म । तेभ्य एते प्रयोगा सर्वथाऽरोचन्त यतस्तेषु वेग आसीत्, उत्तेजना आसीत्, तथा सर्वेऽप्येते प्रयोगाः प्रत्येकमुड्डयनेन सहोत्पद्यमानां वर्धमानां च नवनवां जिज्ञासां शिशिक्षिषां च सन्तोषयन्ति स्म । किन्तु विद्यार्थीपक्षिणामेषमेकतमोऽपि - यावत् फ्लेचर्लिण्ड्पक्षी अपि, विचारा अपि पवनस्य पक्षयोश्चोच्छ्यमुच्चत्वं च प्राप्तुं शक्ताः, इत्यत्र श्रद्धावान् नासीत् ।। 'वाम-दक्षिणपक्षाग्रयोर्मध्ये व्याप्तं यद् भवतां शरीरमस्ति', अन्यदा जोनाथन् तान् बोधयति स्म, 'तद् भवतां विचार एव केवलं - मूर्तस्वरूपेण दृश्यतया च परिणतोऽस्ति । यदि भवन्तो स्वविचारस्य बन्धनानि त्रोटयन्ति तदा भवतां शरीरबन्धनान्यपि स्वयमेव त्रुट्यन्ति.....'। यद्यपि जोनाथन् सर्वथा गभीरतयाऽकथयत् सर्वमिदं तथाऽपि विद्यार्थिभ्यस्तु तत् केवलं विस्मयकारिणी मनःकल्पिता च परीकथेव प्रतिभाति स्म, तथैतच्छ्वा तेऽधिकं स्वतुमिच्छन्ति स्म । Jain Education International For Private 57Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90