Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 42
________________ दिनेषु गच्छत्सु, जोनाथन् स्वनिरीक्षणेनाऽवगतवान् यद् - अतीते जीवने यथोड्डयनविषये प्रभूतं ज्ञातव्यं शिक्षितव्यं चाऽऽसीत् तथैवाऽत्राऽपि वर्तते, किन्त्वत्र वैशिष्ट्यमिदमस्ति यदत्रत्याः पक्षिणस्तस्येवैव विचारशीला वर्तन्ते । सर्वेषामपि तेषामुड्डयनकलैवाऽतीवाऽभीष्टाऽऽसीत् । सा कला व्यापकतया शिक्षणीया तत्र च परिपूर्णता प्राप्तव्येत्येव तेषां जीवनस्य सर्वोपरि ध्येयं समासीत् । सर्वेऽपि ते पक्षिणोऽतितेजस्विनः श्रेष्ठाश्चाऽऽसन् । तथा प्रतिदिनं तेऽत्यद्यतनीय-वैज्ञानिकोड्डयनपद्धतीः परीक्षमाणाः स्वीयं सर्वाधिकं समयमुड्डयनाभ्यास एव यापयन्ति स्म । उड्डयनानन्दं प्रति सर्वथाऽक्षिनिमीलकानां तथोदरपूरणाय परस्परं कलहकरणायैव च स्वपक्षावुपयुञ्जानानां पुरातनानां निजबन्धूनां चिरकालाय जोनाथन् नैव स्मरति स्माऽपि, किन्तु इदानीं तु यदा कदापि क्षणार्धं वा स तान् स्मरति स्म । एकस्मिन् प्रभाते स्वीयप्रशिक्षकेण सह सङ्कोचितपक्षतया त्वरितगत्या वर्तुलाकारमुड्डयनप्रयोगान् कृत्वा समुद्रतटे विश्राम्यतस्तस्य सर्वमपि तत् स्मृतिपथमायातम् । 'सर्वेऽपि कुत्र सन्ति सलीवन् ! ?' स स्वप्रशिक्षकं मौनमेव पृष्टवान् । अत्रत्याः सर्वे पक्षिणो कर्कशारावानकृत्वा मनसैव परस्परमालापं सौकर्येण कुर्वन्ति स्म । जोनाथन् अपि तत् शिक्षितवान् आसीत्। 'इतोऽप्यधिकाः पक्षिणोऽत्र कुतो न दृश्यन्ते ? यतोऽहमागतस्तत्र तु बहवः ...' ।। 'भोः ! ... सहस्रशः सागरपक्षिणोऽहं जानामि' सशिरोधूननं सलीवन् अवदत् । ‘परं भवतः प्रश्नस्यैक एवोत्तरोऽस्ति यद् भवान् लक्षेष्वपि अद्वितीयोऽस्ति । भवादृशः साहसिक उत्तमश्च पक्षी लक्षेष्वपि सागरपक्षिषु एको वा कदाचित् सम्भवेत् । अस्माकमधिकतमाः पक्षिणस्तु चिरकालेनाऽत्यन्तं मन्दगत्या चेह प्राप्ताः सन्ति । वयमेकजन्मतस्तत्सदृशमेवाऽन्यज्जन्म, एकस्माल्लोकात् तत्सदृशमेवाऽन्यं लोकं तथा बम्भ्रमिता यथा न ज्ञातवन्तो यत् कुतो वयमिहाऽऽगताः स्मः, न Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90