Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 40
________________ इदानीं स जर्जरीकतटोपशोभितस्य समुद्रस्योपरिष्टाद् उड्डयमान आसीत् । भृगुषूड्डयनप्रयोगान् कुर्वाणा: केचन सागरपक्षिणस्तेन निरीक्षितास्तथा केचनोत्तरस्यां दिश्यपि क्षितिज एवोड्डयमाना दृष्टाः । नूतनानि दृश्यानि... नूतना विचाराः ... नूतनाश्च प्रश्नाः ... ! 'किमर्थमियदल्पा: पक्षिणोऽत्र? स्वर्गे तु पक्षिणां सम्मर्दः स्यान्ननु ! तथा, किमित्यहमतीव श्रान्तिमनुभवामि? स्वर्गे तु कदाचिदपि कश्चित् पक्षी श्रान्तिं नाऽनुभवेत् नाऽपि स्वपेत् खलु ! !' एतत् सर्वं तेन कुत्र श्रुतमासीत् ? पार्थिवजीवनस्य स्मृतयस्तन्मानसात् शनैः शनैर्विलीयमानान्यासन् ! पृथिव्यामेव स प्रभूततरं शिक्षितवानासीद् यद्यपि, किन्तु इदानीं तस्य विवरणानि विस्मृतप्रायानि सञ्जातानि ... उदरपूरणाय कृतः सङ्घर्षः, समाजाद् बहिष्करणम्... । समुद्रतटे उपदशाः सागरपक्षिणस्तं मीलितुं समागताः आसन्, किन्तु निःशब्दम् ! तेनेदमेवाऽनुभूतं यत् तस्य स्वागतं क्रियमाणमस्ति तथैतदेव तस्य गृहमस्तीति । तद् दिनमपि तेनाऽतीव दीर्घमनुभूतं, तावद्दीघु यत् तस्य तदीयः सूर्योदयोऽपि स्मृतिपथं नाऽऽगच्छति स्म । तटेऽवतरणाय स स्वशरीरं किञ्चिदिव परावर्त्य अङ्गुलमात्रं स्वपक्षावास्फालितवान्, ततो मृदुतया तटीयसिकतायामवातरत् । अन्येऽपि पक्षिणस्तत्सहितमेवाऽवतीर्णाः, परं नैकतमोऽपि तेषां मनागपि स्वपक्षौ स्पन्दितवान् । अत्युज्ज्वलौ स्वपक्षौ वायावेव विकोच्याऽऽन्दोलनं कृतं तैः। ततः कथञ्चिदपि स्वपक्षौ परावर्त्य यावत् ते स्थिरा अभवन् तावद् विनाऽऽयासमेव तेषां पादौ भूमिं स्पृष्टवन्तौ । अद्भुतं प्रभुत्वमासीत् तेषाम् ! किन्तु इदानीं जोनाथन् अत्यन्तं श्रान्त आसीत्, अतो विना वचनमेव स यत्र स्थित आसीत् तत्रैव गाढं निद्रितवान् । *Jagged Shoreline 33 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90