Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 50
________________ भयलेशमपि न विद्यते।' सर्वेऽपि पक्षिणो मौनेन स्वसम्मति सूचितवन्तः, जोनाथन् तु लज्जया सङ्कुचितोऽभवत् । अथ च, च्यांग् तमवदत्, 'आवां कालं जेतुं प्रयोगान् कर्तुमारभेवहि यदि भवान् इच्छति । एतेन भवान् अतीतानागतौ कालावपि विहर्तुं शक्ष्यति । ततश्च भवान् सर्वेभ्योऽपि कठिनतमं, सर्वेभ्यो बलवत्तमं, सर्वतश्च रुचिकर कार्य प्रारब्धं सिद्धो भविष्यति । तथैवोर्ध्वतममुड्यनाय, निर्मलप्रेम्णो निर्व्याजकरुणायाश्चाऽन्तस्तत्त्वं ज्ञातुं योग्यो भविष्यति ।' एको मासो व्यतीतोऽथवा तादृशं किञ्चिद् जातं यन्मासतयाऽनुभूतम् । जोनाथन् अतीव वेगेन शिक्षितुमारब्धः । पूर्वमपि हि स सामान्यैरनुभवैरपि प्रभूततरं शीघ्रतरं च शिक्षितुं समर्थ आसीत् । इदानीं तु स ज्येष्ठस्य प्रियशिष्य आसीत्, अतः स उड्डयमानं पक्षयुतं च सङ्गणकयन्त्रमिवाऽविलम्बमस्खलितं च नवनवान् पाठान् विचारानुपायांश्च स्वसात् कृतवान् । एतावता च्यांग-पक्षिणो गमनवेला समागता । सर्वैः पक्षिभिः सह स्निग्धतया मृदुतया च संवदन् स सर्वानपि तान्, निरन्तरं ज्ञानार्जनार्थम्, अभ्यासार्थं च प्रयत्नान् अनुवर्तयितुं प्रेरितवान् । तथा जीवनस्य योऽज्ञातोऽदृश्यश्चाऽपि परिपूर्णः सिद्धान्तोऽस्ति तं यथार्थतया यथाधिकं चाऽवबोधनायोद्यमयितुमुत्साहितवान् । एवं वदतस्तस्य पक्षौ नितरां तेजोमयौ सञ्जायमानौ प्रान्ते तथा तेजस्विनौ जातौ यथा न कोऽपि पक्षी तमवलोकयितुं द्रष्टुं वाऽपि शक्तोऽभवत् । तस्याऽन्तिमाः शब्दा इमे आसन्, 'जोनाथन् ! प्रेमसाधनायां सर्वदा प्रवरीवृत्त्यतां भवान् !' यावत् पक्षिणस्तं द्रष्टुं प्रायतन्त तावत् सोऽन्तहित आसीत् । Jain Education International For Private 24Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90