Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 48
________________ यत् प्रथमं भवता - निजास्तित्वं द्वाचत्वारिंशदङ्गुलमित-पक्षविस्तारयुते देहे बन्दि अस्ति तथा स्वक्षमता कस्मिंश्चिदुड्डयनावधौ परिमिता कस्याञ्चित् सङ्ख्यायां वाऽङ्कनीया वर्तते इति सर्वथा विस्मर्तव्यम् । तत एतज्ज्ञातव्यं यत् स्वीयमूलप्रकृतिस्त्वनुल्लिखितसङ्ख्यातुल्या स्थलकालयोश्च सीमानमुल्लङ्घ्य सर्वत्र सर्वदा च व्याप्ताऽस्ति । अथैतत् साधयितुं जोनाथन् निरन्तरतया तीव्रप्रयत्नानारभत । प्रत्यहं सूर्योदयादारभ्य मध्यरात्रं यावत् स दृढतया च्यांग्-कथितोपायसाधने निमग्नोऽभवत् । किन्तु प्रयत्नशतैरपि स स्वस्थानात् पक्षाग्रमात्रमपि सञ्चरितुं नाऽशकत् । च्यांग्-पक्षी तं पुनः पुनः प्रेरयति स्मोत्साहयति स्म च, 'भो जोनाथन् ! श्रद्धां सर्वथा विस्मरतु । नाऽत्र श्रद्धाऽपि कार्यसाधिका । यथा भवान् उड्डयनार्थं श्रद्धां नाऽपेक्षितवान् किन्तूड्डयनस्य सम्पूर्णावबोधमेवाऽपेक्षितवान् तथैवाऽत्राऽपि ज्ञानमेव कार्यसाधकम् । इदानीं पुनरपि प्रयतताम्...' अथ चैकदा समुद्रतटे नयने निमील्यैकाग्रं संस्थितो जोनाथन् सहसा विद्युतः प्रस्फुरणवत् समग्रमपि च्यांग्-कथनं समग्रतयाऽवबुद्धवान् । 'अहो ! ननु सत्यमेवैतत् ! अहमस्मि एकः परिपूर्णः सीमाहीन: सागरपक्षी !!' स तीव्रमानन्दाघातमनुभूतवान् । Jain Education International For Private 4 Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90