Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 52
________________ गच्छत्सु दिनेषु, यतः स्वयमागत आसीत् तस्याः पृथिव्या विषये जोनाथन् वारं वारं चिन्तितवान् । यथा, 'यदत्राऽद्य चाऽहं जानामि तस्य दशांशं शतांशं वाऽपि ज्ञानं यदि मया तत्र प्राप्तमभविष्यत् तदा मम तत्रत्यं जीवनं कियदर्थपूर्णमभविष्यत् ? साम्प्रतमपि तत्र कश्चित् सागरपक्षी भविष्यत्येव यः स्वस्य बन्धनानि सीमानश्चोल्लङ्घयितुं सङ्घर्षवान् स्यात् । यस्य मनसि चोड्डयनस्य सार्थक्यं केवलमुदरपूरणायैव न भवेत् । तथा कश्चित् तादृशोऽपि पक्षी स्यात् यः सत्यकथनापराधेन पक्षिसमुदायाद् बहिष्कृतोऽपि स्यात् ।' यथा यथा जोनाथन् अधिकाधिकं करुणाविषयकान् पाठानभ्यस्तवान् यथा च प्रेम्णः स्वरूपं प्रकृति चाऽधिकतयाऽवबोद्धं प्रायतत, तथा तथा तस्य पृथिवीप्रतिनिवर्तनाभिलाषाऽधिकतयोत्कटाऽभवत् । यद्यपि स्वीयमतीतं तेन तत्रैकाकितयैव यापितमासीत् तथाऽपि तस्य मूलप्रकृतिस्तु प्रशिक्षकस्यैवाऽऽसीत् । तथा, स्वयं भूरिपरिश्रमेण या सत्यानुभूतिः प्राप्ता तस्यांऽशमात्रमपि कस्मैचिज्जिज्ञासवे सत्यप्राप्तेश्चाऽवसरगवेषकाय सागरपक्षिणे दातव्यमिति तस्याऽन्यान् प्रति स्वीयप्रेम्णः प्रकटनस्य रीतिरासीत् । किन्तु, इदानीं चिन्तनानुगुणवेगेनोड्डयने निष्णातोऽन्येभ्यश्च तच्छिक्षणार्थं साहाय्यं कुर्वाणः सलीवन् अत्र विषये साशङ्क आसीत् । 'जोन ! यत्समाजाद् भवान् बहिष्कृतोऽस्ति तस्मिन् समाजेऽपि किं तादृशः कश्चित् पक्षी स्यात् यो भवद्वचनानां श्रवणे आदरवान् स्यात् ? अथवा, 'ये पक्षिण ऊर्ध्वतममुड्डयन्ते त एव दूरतमं पश्यन्ति' इतीदमाभाणकं भवता श्रुतमेव स्यात् । यतो भवानागतस्तत्र तु पक्षिणो भूमावेव स्थित्वा कर्कशविरावैः परस्परं कलहायमाना अवतिष्ठन्ते । स्वर्गात् तु ते सहस्रशो योजनानि दूरे वर्तन्ते । जोन ! ये पक्षिणो निजपक्षाग्रमपि द्रष्टुमक्षमास्तान् भवान् भूमितः स्वर्गं दिदर्शयिषति ? अत्रैव तिष्ठतु भवान्, ये चाऽत्राऽऽगता नूतनाः पक्षिणो भवतो बोधप्राप्तिमर्हन्ति तेषां साहाय्यं करोतु ।' क्षणमेकं तूष्णीभूय पुनरपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90