Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text ________________
सोऽवदत्, 'अपि च, भोः ! यदि च्यांग्पक्षी अपि स्वस्य पुरातनलोकेषु न्यवर्तिष्यत तदा भवतो गतिरद्य काऽभविष्यदित्यपि चिन्तयतु ।' 'ननु सत्यमयं वक्ति । यदि च्यांग नाऽभविष्यत् तदा.... । तथेदमपि सत्यमेव यद् ये ऊर्ध्वतममुड्डयन्ते ते दूरतमं पश्यन्ति ।' जोनाथन् तत्रैव स्थितः तेजस्विनः शीघ्रग्राहिणश्च नवागन्तुकान् पक्षिणः शिक्षयितुमारब्धः । किन्तु तस्य चेतसि सैव पुरातनी भावना वारं वारमुद्भवति स्म । सोऽचिन्तयद् यद् 'ननु तत्र पृथ्व्यां द्वित्रास्तादृशाः पक्षिणः स्युरेव ये उच्चशिक्षणाय समर्था भवेयुः । यदाऽहं समाजाद् बहिष्कृतस्तदिन एव यदि च्यांग्पक्षी माममिलिष्यत् तदाऽहं कियद् ज्ञानं प्राप्स्य म्....!!'। प्रान्ते सोऽकथयत्, 'सली ! मयाऽवश्यं गन्तव्यम् । भवतो विद्यार्थिनः सुष्ठु शिक्षमाणाः सन्ति । नवागन्तुकान् शिक्षयितुं भवतः साहाय्यं कर्तुं च ते समर्था एव ।' सलीवन् यद्यपि प्रतिवादं नाऽकरोत् तथापि दीर्घ निःश्वस्याऽवदत् - 'जोनाथन् ! भवतोऽनुपस्थितिर्मामतितरां व्यथयिष्यति ।' 'सली ! लज्जास्पदमेतत् !!' जोनाथन् तमुपालभत, 'मूर्खत्वं माऽऽचारीः !! वयं प्रत्यहं किमभ्यस्यामः? यद्यस्माकं मैत्री स्थल-कालयोरधीना भवेत् तदा स्थल-कालौ जयद्भिरस्माभिरस्माकं बन्धुत्वमेव विनाशितं स्यात् । यदा वयं स्थल-कालौ जयामस्तदा यदवशिष्यते तदस्ति 'अत्र' 'अधुना' च । तथा 'अत्र-अधुना' इत्येययोर्मध्ये तिष्ठन्तो वयमन्योन्यं सकृद् द्विर्वा द्रक्ष्याम एवेति श्रद्धा किं भवतो नास्ति वा?' दुःखेऽपि हसन् सलीवन् अवदत् - 'अहो तरङ्गिखग ! भूमौ स्थित्वा यदि कश्चिद् कस्यचिद् योजनसहस्रदूरं दर्शयितुं समर्थस्तदा स जोनाथन् लिविंग्स्टन् पक्षी एव ।' ततोऽधः पश्यन्नेव सः, 'शुभयात्रा भो जोन ! मम वयस्य ! ......।
Jain Education International
For Private 46ersonal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90