Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 21
________________ सञ्जाते प्रभाते स पुनरप्यभ्यासरतोऽभवत् । पञ्चसहस्रपादोच्छ्रयात्, नौकास्तु नीलजलधौ सूक्ष्मकणिका इव पक्षिसमूहश्च वर्तुलाकारं परिभ्राम्यन् रजोमेघ इव प्रतिभासन्ते स्म । एतत् सर्वं विलोकयन् जोनाथन् प्रत्यग्रचैतन्येनोल्लसन् आनन्दोत्साहाभ्यां स्पन्दमानो भयजयेन च गौरवमनुभवन्नवपतनाय सिद्धोऽभवत् । सहजतयैव स स्वीयपक्षौ शरीरान्तः सङ्कोचितवान् तीक्ष्णास्रयुतौ पक्षाग्रौ च बहिर्विस्तार्य निर्विलम्बमेव स जलधि प्रति अवप्लुतः । चतुःसहस्रपादानतिक्रामता तु तेन वेगस्य चरमसीमा प्राप्ता । यतो घनप्राकारीभूतस्य महाध्वनिमयस्य पवनस्याऽऽघातानां प्रभावात् स इतोऽप्यधिकं वेगं प्राप्तुं नाऽशकत् । समरेखायामेवाऽधोऽवतरतस्तस्य वेगस्तदानीं चतुर्दशाधिकं द्विशतं प्रतिहोरमासीत् । अतीव रुचिरम् !! किन्तु तदाऽप्यानन्दगण्डूषान् निगिरन् स सावधान आसीत् यद् 'यदि स्वल्पमपि तस्य पक्षौ विकसितौ भवेतां तदा तस्य शरीरं लक्षशः कणेषु परावर्तिष्यते' । एवं सत्यपि द्रुततमगतेरानन्दं सामर्थ्य शुद्धसौन्दर्यं चाऽपि समनुभवन् सोऽवतरति स्म।। अथ पादसहस्रोच्छ्रये तावति च वेगे प्रचण्डप्रभञ्जनेन तस्य पक्षाग्रौ थडथडायेते स्म । पक्षिसमाजो नौका च शनैः शनैस्तत्समीपमागच्छन्ति स्म । तदात्वे स्वं नियन्त्रितुमसमर्थः स तावति वेगे प्रत्यावर्तनं कथं ग्रहीतव्यमित्यपि निर्णेतुं नाऽशकत् । लेशमपि संघट्टनं मृत्योरामन्त्रणमासीत् !! अतः ... स दृढतंया नयने निमीलितवान् ! तस्मिन् प्रभाते घटितमेतत् ! क्षणार्धेनैव भक्ष्यान्वेषणरतानां सामुद्रपक्षिणां मध्यतः प्रक्षेपास्त्रमिव निसृत्य महावायोः पिच्छानां च गर्जदुत्क्रोशमनुभवन् स द्वादशाधिकशतद्वयवेगेन निमीलितनेत्र एव निर्गतः । भाग्यदेवताया अनुग्रहेणेव स न केनाऽपि संघट्टितो न वा काचिद् हानिरपि सञ्जाता । Jain Education International For Private & Personal Use Only www.jainelibrary.org 14

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90