Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text ________________
निमीलितवान् । तस्य सर्वा अपि व्यथाः, सर्वाऽपि परिश्रान्तिः सर्वमपि च नैराश्यं व्यलीयन्त इव !
'हुस्वौ पक्षौ !! श्येनवद् ह्रस्वौ ! ! अहो ! अयमेव त्वत्र प्रकट उपायः । कीदृश: कियांश्च मूर्खोऽहमासम् ! ममाऽपेक्षितौ ह्रस्वौ पक्षावेव केवलं, नाऽन्यत् किञ्चित् ! तदर्थं च मया मे दीर्घौ पक्षौ बहुसङ्कचितौ कृत्वा केवलं पक्षाग्रसाहाय्येनैव डयनीयं किल ! अहो ! ह्रस्वौ पक्षौ .... !'
तस्योत्साह द्विगुणिततया जागृतः । पुनरपि प्रयत्नकरणाय स कटिबद्धो जातः । शीघ्रमेव स सहस्रद्वयं पादानामाकाशे आरूढः । ततः क्षणमात्रमपि पराजयस्य मृत्योभ्रंशस्य वा विचारमप्यकृत्वा स्वीयपक्षौ दृढतयाऽन्तः सङ्कोचितवान्, संकीर्णौ सूक्ष्मौ च तीक्ष्णपक्षाग्रावेव वायो प्रसार्याऽधोमुखं समरेखमवपतनमारब्धवान् ।
तन्मस्तकाग्रे तु प्रचण्डः पवनो गर्जति स्म । तस्य वेगोऽपि क्रमशोऽ वर्धततराम् । प्रतिहोरं सप्ततिर्माइल् ... नवतिः... शतं... विशं शतं ततोऽप्यधिकः ! ! किन्तु पुरा सप्ततेर्वेगेऽपि यद् विकर्षणं श्रमश्च तेनाऽनुभूतावास्तां तावीदृशे इयत्यपि च महावेगे नैवाऽनुभूतौ । ततः पक्षयोरीषदावर्तनेनैव सरलतया जलेऽवमज्जनं कृत्वोपरिष्टादगतः स चान्द्रज्योत्स्नायां तरङ्गेषु तरद् अग्न्यस्त्रगोलमिव प्रतिभाति स्म । पवनाघातान् सम्मुखीकुर्वन् ईषदक्षिनिमीलनं कृतवान् स स्वीयपराक्रमस्य साफल्येनाऽत्यन्तं सन्तुष्ट आसीत् । चत्वारिंशं शतं मम वेगः ! सोऽपि सर्वथा नियन्त्रित: ? अहो अहो ! यद्यहं पञ्चसहस्रपादोच्छ्रयादवपतेयं तदा मम वेगः कियान् भविष्यति ! !....'
क्षणार्धपूर्वमेव कृता तस्य सर्वेऽपि सङ्कल्पाः प्रचण्डप्रभञ्जनेन दूरापनीता इव विस्मृतिगर्तायां विलीना: । 'स्वयं गृहीताया: प्रतिज्ञायाः स्वयमेव भङ्गः कृतः' इत्यपराधभावेन स नैराश्यं न प्रापत् यत: 'ईदृश्य: प्रतिज्ञास्तु तेषामेवाऽऽधारभूताः स्युर्ये सामान्यमेव स्वीकुर्वन्ति, ये तु ज्ञानोत्कर्षं जिज्ञासन्ते प्राप्नुवन्ति च तेषां कृते त्वेता अकिञ्चित्करा एवाSनावश्यकाश्चाऽपि' इति स चिन्तितवान् ।
For Private & Personal Use Only www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90