Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text ________________
'किन्तु', स चिन्तितवान् - मम सर्वमपि गतमेव ननु ! । यन्मया शिक्षितं ज्ञातं च तत्सर्वमपि विफलमेव खलु ! मम सामर्थ्य विचारा उत्साहश्च निष्फला एव किल ! अहमपि सामुद्रपक्षिणामन्यतमोऽस्मि अतो मयाऽपि तैरिवैवोड्डयितव्यं ननु ! ... ।' एवंविधैर्विचारैर्व्याकुलो दुःखितश्च स प्रायः पादशतमुड्डीय तटं प्रति प्रस्थातुं पक्षौ कठोरतयाऽऽस्फालितवान् । पक्षिसमाजस्याऽन्यतमीभूय जीवितुं तेन यन्निर्णीतमासीत् तत् तस्य सुयोग्यतया प्रतिभाति स्म । अतः परं नूतना काऽपि जिज्ञासा तं बलात् किञ्चित् शिक्षितुं न प्रेरयिष्यति । अद्यप्रभृति जीवने किञ्चिदाह्वानमिव न भविष्यति ततश्च कदाचिन्नैष्फल्यमपि नैव प्राप्स्यते । नूनं तत् कियद् रुचिकरं चारु च यद् विचाराद्वाराण्येव पिहितानि स्युः ! निष्फलताया अन्धकारात्तटस्यौज्जवल्यं प्रति विसर्पणं तस्मै बहुरुचितम् । 'अन्धकारः !' स एव शून्यो ध्वनिस्तदन्तर्विजृम्भितः पुनरपि - 'सागरपक्षिणस्त्वन्धकारे नैव डयन्ते कदाचित् । !' जोनाथन् तु तत् श्रोतुमवधारयितुं वाऽवहितो नाऽऽसीत् । 'सुन्दरमेतद् वातावरणमस्ति' सोऽचिन्तयत् । 'शशिनस्तारकाणां च रश्मयः सामुद्रे जले प्रपोस्फुर्यन्ते, ते च पुना रात्रेरन्धकारे लघुदण्डदीपायन्ते, तथा सर्वमपि कियत् शान्तं स्थिरं शान्तिकरं च...' 'भोः ! प्रतिनिवर्तस्व...' पुनरपि स एव ध्वनिः समुत्थितः । 'सागरपक्षिणस्तमसि नैवोड्डयन्ते ! यदि त्वमप्यन्धकारे उड्डयनायाऽर्होऽभविष्यत् तदा तवाऽप्युलूकस्येव सक्षमे अक्षिणी अभविष्यताम् । तव मस्तिष्कं विकसिततरमभविष्यत्, तव पक्षावपि श्येनवद् हस्वावभविष्यताम् । एतेषामन्यतममपि त्वत्पार्वे नास्ति, तत्कथं..!!' अन्तःस्थो ध्वनिस्तं प्रेरितवान् । रात्रेनेऽन्धकारे मन्दमन्दे शीतलसमीरे च प्रसरति, पादशतोच्छ्ये उड्डयमानो जोनाथन् ध्वनिमिममवधार्य सहसा चित्ते चमत्कृति प्राप्य सन्तोषेणाऽक्षिणी
Jain Education International
For Private & Personal Use Only
12
www.jainelibrary.org
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90