Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text ________________
किन्त्वेषा स्थिति व चिरायिता । यस्मिन् क्षणे स पक्षौ परावृत्य वक्रावर्तनं ग्रहीतुं प्रयतितवान् तस्मिन्नेव क्षणे स्वनियन्त्रणात् स्खलितः सन् भयानकवेगेनाऽधोमुखं तदेव पतनं प्राप्तवान् । इदं पतनं तु तावति वेगे ज्वलनशीलपदार्थस्य विस्फोटवत् अतिदारुणमासीत् । जोनाथन् वायावेव महाघातेनोत्पत्य प्रचण्डवेगेन सामुद्रे जले विनिपतितः । तावति वेगे च तज्जलमपि पाषाणायितम् । एतावता सर्वत्र तमः प्रसृतमासीत् । चन्द्रज्योत्स्नायां स समुद्रतलेऽवशतया तरति स्म । तस्य पक्षौ लोहमयाविव भारयुतौ सञ्जातौ किन्तु नैष्फल्यस्य भारस्तु तन्मानसे ततोऽप्यधिकतर आसीत् । 'यदीदं गुरुत्वं मां गभीरे जले मज्जयित्वा जीवनान्तं प्रापयेत् तदा वरम्' - स निराशतया चिन्तितवान् । यावता स जले मनाक् निमग्नस्तावत् अकस्मादेवैको विलक्षणो ध्वनिस्तदन्तः शून्यतयेव प्रादुर्भूतः, यथा - 'नूनमत्र नास्त्येव कोऽप्युपायः । सागरपक्षी अहमस्मि खलु ! । ममाऽपि प्रकृत्यैव काश्चिन्मर्यादा विद्यन्ते । यद्यहमेतत् सर्वं शिक्षितुमर्होऽभविष्यम् तदा मम मस्तिष्कमपि विकसिततरमभविष्यत्, यदि मया महावेगेनोड्डयितव्यमभविष्यत तदा मम पक्षावपि गरुडवत् श्येनवद् वा हुस्वावभविष्यताम्, तथा ममाऽऽहारोऽप्यन्य एवाऽभविष्यत् । नूनं पितुर्वचांसि सत्यान्येव । मया सर्वमप्येतन्मौयं विस्मृत्य गृहं समाजं च प्रतिनिवर्तितव्यम् । मम सीमितक्षमतयैव मया सन्तोषो धारणीयो यतोऽहमस्मि एकोऽल्पशक्तिकः सागरपक्षी......।' शनैः शनैः स ध्वनिविलीनोऽभवत्, जोनाथन् अपि तेन सह सम्मतो भूत्वा तमङ्गीकृतवान् । 'सागरपक्षिभी रात्रिस्तटे एव यापनीया' स स्मृतवान्, ततश्च 'अतः क्षणादेव मया सामान्यसागरपक्षिवदेव वर्तितव्यं जीवितव्यं च' इति सङ्कल्पमपि कृतवान् चिन्तितवांश्च यद् – 'ममाऽयं निर्णयः सर्वानपि तोषयितुमलं स्यात् ।' स श्रान्ततयैव नीलजला बहिरागत्य भूमिं प्रत्युड्डीनः । एतावता कालेन तेन यदल्पोच्छ्रयमुड्डयनं शिक्षितमासीत् तदर्थं स कार्तझ्यमनुभवन्नासीत् ।
Jain Education International
For Private &17ersonal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90