Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 27
________________ समुद्रतटे रात्रि यापयितुं यदा स समाजेन सम्मीलितस्तदा तन्मस्तकं घूर्णमानमासीत् शरीरं च परिश्रान्त्याऽत्यन्तं क्लान्तमासीत्, तथाऽप्यानन्दातिरेकेण स चक्राकारं परिभ्राम्यन्नेवाऽवतीर्णः । 'यदा मदीयाः स्वजना ज्ञातिजनाश्च मे पराक्रमान् साहसानि च ज्ञास्यन्ति', स चिन्तितवान्, 'तदा तेऽप्यानन्दोल्लसिता नतिष्यन्ति । केवलमुदरपूरणाय नौकासु सामुद्रसेतुषु चाऽर्थहीनं भ्रमणं परस्परं च कलहकरणमतिरिच्याऽपीदानीं जीवने किञ्चित् प्रयोजनमस्ति । कियत् सुभगम् ! अद्यप्रभृति वयं स्वमज्ञानान्धतमस उत्थाप्य श्रेष्ठताया प्रज्ञाया नैपुण्यस्य च निर्मले प्रकाशे सञ्चारयितुं समर्थाः स्मः, स्वातन्त्र्यं प्राप्तुमर्हाः स्मः, महाकाशे चोडयितुं शक्ताः स्मः । इतः परं सर्वस्याऽपि पक्षिजगतो भावि उज्जवलमुन्नतं च ! !' यदा स भूमिं स्पृष्टवान् तदा सर्वोऽपि सागरपक्षिसमाजः सम्मील्य वृद्धानामग्रणीनां च नेतृत्वे पर्षदि उपविष्ट आसीत् । नूनं सर्वेऽपि ते प्रतीक्षारता अभासन्त । 'जोनाथन् लिविंग्स्टन् पक्षिन् ! सभामध्ये आगत्य उत्तिष्ठ !' ज्येष्ठस्तं गभीरस्वरेणोच्चैरादिशत् । 'सभामध्ये उत्तिष्ठ' इति वाक्यं प्रयोजनद्वयमेवाऽभिव्यक्ति, अतिलज्जास्पदं वा कृत्यमधिकृत्याऽतिगौरवास्पदं कार्यमधिकृत्य वा' सोऽचिन्तयत् । 'यदाऽग्रगण्यानां पक्षिणां सम्मानं कर्तव्यं तदा ते गौरवेण सभामध्ये आकार्यन्ते । यद्यप्यद्य प्रातराशवेलायां तैर्मम पराक्रमा दृष्टा एव, परन्तु नाऽहं सम्माननकाम्योऽस्मि नाऽपि मम नेतृत्वाभिलाषोऽस्ति । नवरं, यत्सर्वमहं महता परिश्रमेणोपलब्धवान् तत्र सर्वानपि सहभागिनः कर्तुमिच्छामि, अस्माकं क्षितिजानि कियद् विस्तरीतुमर्हन्ति तदेवाऽहं सर्वेभ्यो ज्ञापयितुमिच्छामि...'। . 'जोनाथन् लिविंग्स्टन् ! सभामध्ये आगत्य तव बन्धूनां समक्षं लज्जया उत्तिष्ठ !' ज्येष्ठोऽगर्जत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90