Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 10
________________ सुरम्यः प्रातःसमय आसीत् । बालसूर्यस्य स्वर्णवर्णरश्मिभिः शान्तसमुद्रस्य मृदुकल्लोलेषु स्फुरिततेजोवलया इव उत्थिताः । तटात् क्रोशमिते दूर एवैका मत्स्यग्राहिणी नौका जलमध्ये सञ्चरिता। एतेन ‘प्रातराशवेला प्रत्यासन्ना...' इति शब्दो वातावरणे प्रसृत इव । आकाशात् सहस्रशो विहङ्गमा भक्ष्यगवेषणायाऽधोऽवतीर्णाः, आहारखण्डप्राप्त्यर्थं च तेषां सङ्घर्षः समारब्धः । उदरपूरणाय तु सर्वेऽपि प्रयतन्ते खलु ! एवमेकस्य व्यस्तदिवसस्याऽऽरम्भः सञ्जातः । किन्तु सर्वेभ्योऽप्येतेभ्यो दूरे, नौकां स्वजनान् क्षुधं भोजनं चेत्यादि सर्वमपि विस्मृत्यैकाकी एवैको जोनाथन्-लिविंग्स्टन्नामा सागरपक्षी व्यग्रो भूत्वा किञ्चिदन्यदेवाऽभ्यस्यन् दृश्यते स्म । व्योम्नि पादशतं प्राय उड्डीय स स्वीयौ त्वग्गुम्फितौ पादौ किञ्चिन्नामितवान्, ततश्चञ्चपुटमूर्वीकृत्य तेनैकं वक्रावर्तनं ग्रहीतुं प्रयतितम् । तदावर्तनमतीव कठिनं कष्टदायकं चाऽऽसीत् । ईदृशावर्तनस्य करणकाले उड्डयनगतिरत्यन्तं मन्दयितव्या, अत एषोऽपि मन्दमन्दमुड्डयमानः शान्तसागरस्योपरिष्टादागतः शीतलसमीरस्य च मन्दनिनदमनुभूतवान् । ऐकाग्यं प्राप्तुं स अक्षिणी ईषन्निमीलितवान् श्वासमपि च रुद्धवान् । ततो यावत् किञ्चिदधिकं वक्रावर्तनं ग्रहीतुं स्वं प्रेरयति तावत् सहसा तस्य पक्षौ सङ्कुचितौ, स च स्वनियन्त्रणाद् भ्रष्टः सन् अधोमुखं विनिपतितः । सामुद्राः पक्षिणः कदाऽपि नैव पतन्ति नाऽपि नियन्त्रणाद् भ्रश्यन्ति वा। पवने भ्रंशनं पतनं वा नाम तेषां महती मानहानिर्लज्जास्पदं च । किन्त्वयं महाशयो लज्जामेकतस्त्यक्त्वा पुनरपि तदेवाऽऽवर्तनं कर्तुं प्रयतमानः पुनरपि प्रभुत्वहान्याऽधोमुखं पतितः । आम्, स सामान्यः सागरपक्षी नाऽऽसीत् । वस्तुतस्तु अधिकतमाः सागरपक्षिणः सामान्योड्डयनादधिकं शिक्षितुं नैवोत्सहन्ते । समुद्रतटात् भक्ष्यान्वेषणाय गन्तव्यं, तत्प्राप्तौ च तटे प्रतिनिवर्तितव्यम् - इत्येव तेषां ध्येयम् । इतोऽप्यधिकमुड्डयनं तु क्लेशाय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90