Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 112
________________ सहते यः स तथा, तं शत्रुखड्गाक्षमम्, एवंविधं अरिं प्रति रणसीम्नि, किम् आह ब्रवीति? अत्रोत्तरम्- वस्त्रं परास्यसह ! सादयिता इभबाधः। परेषां शत्रूणां असिं-खड्गं न सहते इति परास्यसहः, तत् सम्बोधनम्-हे परास्यसह ! इभं-गजदैत्यं बाधते इति इभबाध:-हरः उ:- ब्रह्मणोऽस्त्रं वस्त्रं प्रति सादयिता-खण्डनशीलः। ___ पक्षे, रतार्थी सम्भोगार्थी कामी प्रियां प्रति त्वरितं शीघ्रं किं भणति? उत्तरम्- वस्त्रं वसनं परास्य त्यक्त्वा सहसा वेगेन हे दयिते! प्रिये! त्वम् अधो भव ॥ वृत्तमध्यस्थितपादोत्तरजातिः ॥ ७५ ॥ प्रत्याहारविशेषा वदन्ति नन्दी निगद्यते कीदृग् ?। आपृच्छे गणकोऽहं किमकार्षं ग्रहगणान् वदत?॥७६॥ ॥अजगणः॥ त्रि:समस्तः॥ ____ व्याख्याः- प्रत्याहारविशेषा वदन्ति- नन्दी ईश्वरशिष्यः कीदृग् निगद्यते? उत्तरम्- अच् च अक् च अण् च अजगणः, तत्सम्बोधनम्- हे अजगण:! प्रत्याहारविशेषाः! अजस्य-हरस्य गण:प्रमथः अजगणः, 'अजः छागे हरे विष्णौ रघुजे वेधसि स्मरे' [अनेकार्थसंग्रह २/६६] इति वचनात्। . तथा अहं गणकः ज्योतिषिक आपृच्छे आपृच्छामि-अहं ग्रहगणान् किमकार्षम्? हे लोका(काः )! यूयं वदत। उत्तरं ते प्राहु :- त्वम् अजगणः गणितवान्, 'गण सङ्ख्याने' [सार.चु.पृ. ३४५]; [पाणि. धातु.१९९८] अद्यतनीसिपि 'अजगणः' इति रूपम् ॥ त्रिःसम-स्तजातिः ॥ ७६ ॥ कीदृक्षे कुत्र कान्ता रतिमनुभवति ? ब्रूत वल्लिं? व मे मुत् ?, प्राहर्षिः कोऽत्र कस्याः स्मरति गतधनः ? श्रीतया पृच्छ्यतेऽदः। १. 'कीदृक्' इति मु. प्रतौ। प्रश्रोत्तरैकषष्टिशतकाव्यम्

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186