Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text ________________
अथ ग्रन्थसमाप्तौ ग्रन्थकारः स्वगर्वं खर्वीकुर्वन् कविप्रार्थनाग) काव्यमाह
किमपि यदिहाऽश्लिष्टं क्लिष्टं तथा चिरसत्कविप्रकटितपथानिष्टं शिष्टं मया मतिदोषतः। तदमलधिया बोध्यं शोध्यं सुबुद्धिधनैर्मनः, प्रणयविशदं कृत्वा धृत्वा प्रसादलवं मयि॥ १६१॥
व्याख्याः- इह ग्रन्थे यत्किमपि पदम् अश्लिष्टम् अर्थेनाऽनालिङ्गितम्, तथा क्लिष्टं क्लेशगम्यार्थम्, तथा चिरसत्कविभिः - पुराणकविभिः प्रकटितो यः पन्थाः-मार्गः सः, अनेन सह अनिष्टम्असम्मतं 'चिरसत्कविप्रकटितपथानिष्टं मतिदोषतः बुद्धिदोषात् मया शिष्टं कथितम्, तत्पदं सुबुद्धिधनैः कुशाग्रीयमतिभिः अमलधिया निर्मलमत्या पूर्वं बोध्यं ज्ञेयं, पश्च्यात् शोध्यं शोधनीयम्। किं कृत्वा? प्रणयेन-स्नेहेन विशदं-निर्मलं प्रणयविशदं मनः कृत्वा। पुनः किं कृत्वा? मयि प्रसादलवम् अनुग्रहलेशं धृत्वा।।
___ इह शास्त्रे बहुषु प्रश्रोत्तरेषु द्वित्र्यादिजातिसम्भवेऽप्यस्माभिः प्रायेणैकैवजातिर्दर्शितास्ति, अन्यास्तु सुधिया यथासम्भवं स्वयमभ्यूह्या इति ॥ १६१॥ ॥ इति श्रीखरतरगच्छाधिराजश्रीअभयदेवसूरिपट्टालङ्कारश्रीजिनवल्लभसूरिविरचितप्रोत्तरकाव्यवृत्तिः॥
श्रीरस्तु॥ कल्याणमस्तु॥
***
१. २.
"विरसं क्वचित् प्रकटित. ' इति मु. प्रतौ। 'श्रीरस्तु। कल्याणमस्तु।' इति न १, ३।
प्रश्रोत्तरैकषष्टिशतकाव्यम्
११९
Loading... Page Navigation 1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186