Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 171
________________ पक्षे, हे श्रीजिनवल्लभ! त्वं ब्रूहि- कीदृग्विधाः के सतां शिष्टानां स्तुतिपदं स्तुतियोग्या:? उत्तरम्- मम जिनवल्लभस्य गुरवो मद्गुरवः, एवं विधाः सन्तो श्रीजिनेश्वरसूरयः सतां स्तुतिपदमित्यर्थः॥ द्विर्गतजाति: ॥ १५९॥ अथ कविः प्रश्नोत्तरेणैव स्वनाम दर्शयतिप्रत्येकं रिधान्यभेदशशिनः पृच्छन्ति किं लुब्धक! त्वं प्राप्तं कुरुषे मृगव्रजमथो? खादद्गृहीताऽवदत्। कीदृग्भाति सरोऽर्हतश्च सदनं ? किं चाल्पधीर्नाप्नुवन्, पृष्टः प्राह ? तथा च केन मुनिना प्रश्नावलीयं कृता?॥१६०॥ ॥जिनवल्लभेन॥ [ गतागतद्विर्गतः ]॥ व्याख्याः- हरिश्च धान्यभेदश्च शशी च हरिधान्यभेदशशिनः प्रत्येकं पृच्छन्ति- हे लुब्धक! त्वं प्राप्तं मृगव्रजं किं कुरुषे? हे जिन! विष्णो!, हे वल्ल! धान्यभेद!, भं- नक्षत्रम्, तस्य इन:- स्वामी भेनः, तत्सम्बोधनम्- भेन! इन्दो! अहं नभे हन्मि। अथो खादद्गृहीताऽवदत्-सरः सरोवरं च पुनः अर्हतः सदनम् अर्हच्चैत्यं कीदृग्भाति? 'अद-प्सा भक्षणे' [सार०] [पाणि. धातु. १०८१-११३१] अत्तीति अत्, क्विप्, अदं लातीति अल्लः, तस्य सम्बोधनम्हे अल्ल! वनजं-कमलं विद्यते यत्र तद् वनजि, पद्मयुक्तं सरो भाति। जिनो विद्यते यत्र तद् जिनवत्, जिनबिम्बान्वितमर्हच्चैत्यं भातीत्यर्थः॥ अल्पधी प्नुवन् अलभमानः पृष्टः सन् किं प्राह? अहं लभे! प्राप्तोस्मि न नैव। 'तथा च' इति पक्षान्तरे, केन मुनिना इयं पूर्वोक्ता प्रश्नावली कृता? जिनवल्लभेन जिनवल्लभनाम्ना मुनीश्वरेण ॥ गतागतद्विर्गतजातिः ॥ १६०॥ १. 'द्विर्गतजातिः' इति न ३। २. 'गतागतद्विर्गतजातिः' इति न ३ । कल्पलतिकाटीकया विभूषितम्

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186