Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 169
________________ इति प्रोक्तान् वक्तृन् कांश्चन जनान् स्मरः किं वदेत् ? उत्तरम् - मां स्मरम् असूत जनितवती सा लक्ष्मीः न नैव वः युष्मान् । यदा केचन एवं वक्तारो भवन्ति, यदुत — 'श्रीरस्मानेव जनितवती न कन्दर्पम्' तदा कामदेवस्तान् प्रतीतिप्रतिपादयेदित्यर्थः ॥ मञ्जरीसनाथजातिभेदः ॥ १५७ ॥ अथ ग्रन्थकृत्स्वस्योपसम्पत्तिदायकान् सद्गुरून् स्तोतुं तन्नाम्नैव प्रश्नोत्तरमाह पाके धातुरवाचि कः ? क्व भवतो भीरो! मनः प्रीयते ?, सालङ्कारविदग्धया वद कया रज्यन्ति विद्वज्जनाः ? | पाणौ किं मुरजिद्विभर्ति ? भुवि तं ध्यायन्ति वा के सदा ?, के वा सद्गुरवोऽत्र चारुचरण श्रीसुश्रुता विश्रुताः ? ॥ १५८ ॥ ॥ श्रीमदभयदेवाचार्याः ॥ [ व्यस्तसमस्तजातिः ] ॥ व्याख्या:- पाके को धातुरवाचि? श्री, 'श्रीञ् पाके' [पाणि. धातु. १५६९] इति वचनात् । हे भीरो ! भवतः तव मनः क्व प्रीयते सन्तुष्यति ? ममाऽभयं ददातीति मदभयदः, तस्मिन् मदभयदे, यो ममाऽभयं ददाति तत्र मम मनः प्रीतियुक्तं भवतीत्यभिप्रायः । सालङ्कारविदग्धया कया विद्वज्जना रज्यन्ति ? वाचा वाण्या । मुरजिद् विष्णुः पाणौ किं बिभर्ति ? अरा विद्यन्ते यत्र तद् अरि चक्रम् । के जनाः तं विष्णुं ध्यायन्ति ? ए - विष्णौ भक्तिर्येषां ते आः वैष्णवाः, 'तत्र भक्ति:' [ पाणि. २/१/४६ ] इति अण् । वा पक्षान्तरे, अत्र जगति चार्वी चरण श्रीर्येषां ते चारुचरणश्रियः, तथा सुष्ठु - युगप्रवरं श्रुतं सिद्धान्तो येषां ते, ततः कर्मधारये १. ११६ - 'मञ्जरीसनाथजातिभेदः' इति न ३ । कल्पलतिकाटीकया विभूषितम्

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186