Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 173
________________ प्रशस्तिः आसीत्पुरा खरतराभिधगच्छनाथः, श्रीमान् जिनेश्वरगुरुः शुभशाखिपाद्यः। सूरिस्ततोऽपि जिनचन्द्र इति प्रतीतः, शीतद्युतिप्रतिमचारुगुणैरुदीतः॥ १॥ [वसन्ततिलका] तदनु कीर्तिभरैरविनश्वराः, शुशुभिरेऽभयदेवमुनीश्वराः। विहितचङ्गनवाङ्गसुवृत्तयः परहितोद्यतमानसवृत्तयः॥ २॥ [द्रुतविलम्बितम्] तत्पट्टोदयशैलमौलितरणिः संविज्ञचूडामणिः, सूरिश्रीजिनवल्लभः समभवद्वादीभकुम्भे सृणिः। तत्पट्टे जिनदत्तसूरिसुगुरुः सर्वाङ्गविद्यावधिः, द्धाम्नायविधिः सुधाविधुदधिप्रोद्यद्गुणाम्भोनिधिः॥ ३॥ . [शार्दूलविक्रीडितम्] तत्सन्ततौ समजनिष्ट गरिष्ठधामा, सूरीश्वरः श्रुतधरो ' जिनभद्रनामा। श्रीजैनचन्द्रगणभृद्गुणरत्नराशेरब्धिस्ततो जिनसमुद्रगुरुश्चकाशे॥ ४॥ [वसन्ततिलका] तत्पट्टराजीवसहस्ररश्मयस्ततो बभुः श्रीजिनहंससूरयः। १. 'श्रुतधरो' इति न २। कल्पलतिकाटीकया विभूषितम् १२०

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186