________________
प्रशस्तिः
आसीत्पुरा खरतराभिधगच्छनाथः, श्रीमान् जिनेश्वरगुरुः शुभशाखिपाद्यः। सूरिस्ततोऽपि जिनचन्द्र इति प्रतीतः, शीतद्युतिप्रतिमचारुगुणैरुदीतः॥ १॥
[वसन्ततिलका] तदनु कीर्तिभरैरविनश्वराः, शुशुभिरेऽभयदेवमुनीश्वराः। विहितचङ्गनवाङ्गसुवृत्तयः परहितोद्यतमानसवृत्तयः॥ २॥
[द्रुतविलम्बितम्] तत्पट्टोदयशैलमौलितरणिः संविज्ञचूडामणिः, सूरिश्रीजिनवल्लभः समभवद्वादीभकुम्भे सृणिः।
तत्पट्टे जिनदत्तसूरिसुगुरुः सर्वाङ्गविद्यावधिः, द्धाम्नायविधिः सुधाविधुदधिप्रोद्यद्गुणाम्भोनिधिः॥ ३॥ .
[शार्दूलविक्रीडितम्] तत्सन्ततौ समजनिष्ट गरिष्ठधामा, सूरीश्वरः श्रुतधरो ' जिनभद्रनामा।
श्रीजैनचन्द्रगणभृद्गुणरत्नराशेरब्धिस्ततो जिनसमुद्रगुरुश्चकाशे॥ ४॥
[वसन्ततिलका] तत्पट्टराजीवसहस्ररश्मयस्ततो बभुः श्रीजिनहंससूरयः।
१.
'श्रुतधरो' इति न २।
कल्पलतिकाटीकया विभूषितम्
१२०