________________
सहते यः स तथा, तं शत्रुखड्गाक्षमम्, एवंविधं अरिं प्रति रणसीम्नि, किम् आह ब्रवीति? अत्रोत्तरम्- वस्त्रं परास्यसह ! सादयिता इभबाधः। परेषां शत्रूणां असिं-खड्गं न सहते इति परास्यसहः, तत् सम्बोधनम्-हे परास्यसह ! इभं-गजदैत्यं बाधते इति इभबाध:-हरः उ:- ब्रह्मणोऽस्त्रं वस्त्रं प्रति सादयिता-खण्डनशीलः।
___ पक्षे, रतार्थी सम्भोगार्थी कामी प्रियां प्रति त्वरितं शीघ्रं किं भणति? उत्तरम्- वस्त्रं वसनं परास्य त्यक्त्वा सहसा वेगेन हे दयिते! प्रिये! त्वम् अधो भव ॥ वृत्तमध्यस्थितपादोत्तरजातिः ॥ ७५ ॥
प्रत्याहारविशेषा वदन्ति नन्दी निगद्यते कीदृग् ?। आपृच्छे गणकोऽहं किमकार्षं ग्रहगणान् वदत?॥७६॥
॥अजगणः॥ त्रि:समस्तः॥ ____ व्याख्याः- प्रत्याहारविशेषा वदन्ति- नन्दी ईश्वरशिष्यः कीदृग् निगद्यते? उत्तरम्- अच् च अक् च अण् च अजगणः, तत्सम्बोधनम्- हे अजगण:! प्रत्याहारविशेषाः! अजस्य-हरस्य गण:प्रमथः अजगणः, 'अजः छागे हरे विष्णौ रघुजे वेधसि स्मरे' [अनेकार्थसंग्रह २/६६] इति वचनात्। . तथा अहं गणकः ज्योतिषिक आपृच्छे आपृच्छामि-अहं ग्रहगणान् किमकार्षम्? हे लोका(काः )! यूयं वदत। उत्तरं ते प्राहु :- त्वम् अजगणः गणितवान्, 'गण सङ्ख्याने' [सार.चु.पृ. ३४५]; [पाणि. धातु.१९९८] अद्यतनीसिपि 'अजगणः' इति रूपम् ॥ त्रिःसम-स्तजातिः ॥ ७६ ॥ कीदृक्षे कुत्र कान्ता रतिमनुभवति ? ब्रूत वल्लिं? व मे मुत् ?, प्राहर्षिः कोऽत्र कस्याः स्मरति गतधनः ? श्रीतया पृच्छ्यतेऽदः। १. 'कीदृक्' इति मु. प्रतौ।
प्रश्रोत्तरैकषष्टिशतकाव्यम्