________________
व स्यात् प्रीतिस्तृतीयं वदति युगमिह कोद्यमी कामशत्रुः?, कामी रज्येत् प्रियायाः क्व च? नयविनयी कुत्र पुत्रः प्रतुष्येत् ?॥७७॥ स्पृहयति जनः कस्मै नास्मिन् सुखे च न कीदृशे, प्रसजति सुधीः? स्यात् कीदृक्षे व वा वपुरव्यथम् ?। सुदृशमभितः पश्यन् कामी किमाह सखीन् युवा ?, तरलनयना मामत्रेयं स्मितास्यमितीक्षते॥७८॥ युगलम्।
॥(मध्योत्तरजातौ ) षोडशदलं कमलं विपरीतम्॥ व्याख्याः- कान्ता स्त्री कुत्र कीदृक्षे रतिं सुखम् अनुभवति? तते विस्तीर्णे रते सम्भोगे।
हे जनाः! यूयं वल्लिं ब्रूत सम्बोधयत- हे लते! वल्लि! ऋषिः प्राह– 'मे मम मुत् कुत्र भवति? नते प्रणते हे यते !
श्रियो भावः श्रीता, तयाऽदः पृच्छ्यते- 'अत्र जगति को गतधनः कस्याः स्मरति ?' उत्तरम्- ना ते माते! कोऽर्थः? माया:लक्ष्म्या भावो माता, तत्सम्बोधनम्- हे माते ! ना-पुमान् ते-तव। '
प्रीतिः क्व स्यात् ? मते अभिमते।
तृतीययुगं वदति- कामशत्रुः क कस्मिन् उद्यमी उद्यतः? उत्तरम्- हे त्रेते! तृतीययुग! यन्ते। इ:-कामः, तस्यान्तः-विनाशो यन्तः, तस्मिन् यन्ते।
कामी प्रियायाः क्व रज्येत? स्मिते ईषद्धसिते'। नयविनयी पुत्रः कुत्र प्रतुष्येत् ? ताते पितरि॥
जनः कस्मै न स्पृहयति? स्यतीति स्यत्, तस्मै स्यते अन्तं कुर्वते। 'षोऽन्तकर्मणि' [सार.दि.पर.पृ. ३०७]; [पाणि. धातु. १२२२] दैवादिकधातोः शतृप्रत्यये 'स्यत्' इति रूपम्। १. 'ईषद्धषने' इति ३।
कल्पलतिकाटीकया विभूषितम्