Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 130
________________ व्या उदधिजाकान्तः-हरिः, विवस्वतः-सूर्यस्याऽपत्यं वैवस्वतो यमः, अन्तः-प्रान्तः, ततो द्वन्द्वे उदधिजाकान्तवैवस्वतान्ताः पृथग् आहुः इति वदन्ति- 'कश्चित् कामी ललनया स्त्रिया क्षिप्तो मन्मथोन्माथेनकामव्यथया दुःस्थ:-पीडितो मन्मथोन्माथदुःस्थ: सन् अथ सख्या मित्रेण चित्तखेदापनोदाय स कथम् आचख्ये बभाषे? अत्रोत्तरम्हे अ! विष्णो ! हे काल! हे यम! हे अवसान ! प्रान्त ! साऽबला स्त्री कामयमानम् अभिलषन्तं कं नरं न आस चिक्षेप, अपि तु सर्वमपि क्षिप्तवती॥ गतप्रत्यागतजातिः ॥ १०३ ।। जननीरहितनरोद्भवलक्ष्मीः सितकुसुमभेदगतबुद्धिः। सध्रीची यदपृच्छ-त्तदुत्तरं प्राप तत एव॥ १०४॥ ॥ प्रसूनपुञ्जेनवमालिका॥ समवर्णप्रश्नोत्तरजातिः॥ व्याख्या:- जननीरहितनरोद्भवा या लक्ष्मीः सा जननीरहितनरोद्भवलक्ष्मीः, किम्भूता ? सिते-धवले कुसुमभेदे गता बुद्धिर्यस्याः सा सितकुसुमभेदगतबुद्धिः सती सध्रीची सखीं प्रति यदपृच्छत्, तत एव तदुत्तरं प्राप। . तथाहि- प्रसूनपुञ्जे कुसुमनिकरे अनवमा प्रधाना हे आलि! सखि! का? इति प्रश्ने उत्तरम्- प्रसूः-माता, तया ऊनः प्रसूनः, जननीरहित इत्यर्थः । स चाऽसौ पुमांश्च प्रसूनपुमान्, तस्माज्जाता प्रसूनपुञ्जा । सा चाऽसौ ईश्च लक्ष्मीः, तस्याः सम्बोधनम्- हे प्रसूनपुञ्जे! नवमालिका पुष्पजातिविशेषः॥ समवर्णप्रश्रजातिः ॥ १०४॥ 'गतप्रत्यागतजातिः' इति न ३। 'उत्तरं' इति ३। 'तज्जाता' इति । 'समवर्णप्रश्रजातिः' इति न ३। प्रश्नोत्तरैकषष्टिशतकाव्यम् s n x ७७

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186