Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text ________________
किमकृत कं विक्रमासिकालः ?, क्ष्माधरवारुणबीजगाव आख्यन् ॥ १२८ ॥
॥ आदशकंधरवधेनवः ॥ द्विर्गतः ॥ युगलकम् ॥
व्याख्या:- अहं पाता रक्षको वः युष्मान् किमु कृतवान् किमकार्षम्? आवः त्वं रक्षितवान् । 'अव रक्षपालने (रक्षणगतिकान्ति प्रीति० ) ' [ पाणि. धातु. ६४०] अनद्यतनीसिपि 'आव:' इति रूपम्। वने मृगत्रासाय को भवति ? दवः दावानलः ।
पितृवेश्म श्मशानं कोऽध्यास्ते अधितिष्ठति ? शवः मृतकः । प्रमदवान् सहर्षः कः ? कं- सुखं राति - गच्छति प्राप्नोतीति कंवः। अथवा कमस्यास्तीति: कंव:, 'कंशंभ्यां वभादयः' [ ] इति वचनादत्र वप्रत्ययोऽस्त्यर्थे ।
योषितां प्रीतये कः ? धवः भर्त्ता ।
कोकिलासु को हृद्यः मनोहर : ? रवः शब्दः ।
करणेषु बवबालवादिषु स्थिरार्थः कः ? बवः करणविशेषः, यः कृष्णचतुर्थ्यां भवति । बवे कार्यमारब्धं स्थिरं भवतीत्यर्थः । क् कस्मिन् वर्णे दृष्टे सति लिपिवशात्को वर्णः प्रतिभाति ? उत्तरम् - धे वः, धकारे दृष्टे वकारः प्रतिभाति ।
अपुराणः कः ? नवः नवीनः, 'पुराणः कः ? ' इति पाठे तु 'अनवः' इत्यकारप्रश्लेषः ॥ मञ्जरीसनाथजातिः ॥ १२७ ॥
`पक्षे, लङ्केश्वरवैरिणश्च ते वैष्णवाश्च लङ्केश्वरवैरिवैष्णवाः केऽपि वदन्ति - केन केषां प्रीतिरकारि ? अत्रोत्तरम् - आ! दशकन्धरवधेन वः । अस्य - विष्णोरिमे आः, तत्संबोधनम् हे आ(आ:) ! वैष्णवाः !, अथवा आ-समन्ताद दशकन्धरस्य - रावणस्य वधः स तथा, तेन दशकन्धरवधेन वः- युष्माकं प्रीतिरुत्पन्नेत्यर्थः ।
१. 'यत्' इति २ ।
प्रश्नोत्तरैकषष्टिशतकाव्यम्
९३
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186