SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ किमकृत कं विक्रमासिकालः ?, क्ष्माधरवारुणबीजगाव आख्यन् ॥ १२८ ॥ ॥ आदशकंधरवधेनवः ॥ द्विर्गतः ॥ युगलकम् ॥ व्याख्या:- अहं पाता रक्षको वः युष्मान् किमु कृतवान् किमकार्षम्? आवः त्वं रक्षितवान् । 'अव रक्षपालने (रक्षणगतिकान्ति प्रीति० ) ' [ पाणि. धातु. ६४०] अनद्यतनीसिपि 'आव:' इति रूपम्। वने मृगत्रासाय को भवति ? दवः दावानलः । पितृवेश्म श्मशानं कोऽध्यास्ते अधितिष्ठति ? शवः मृतकः । प्रमदवान् सहर्षः कः ? कं- सुखं राति - गच्छति प्राप्नोतीति कंवः। अथवा कमस्यास्तीति: कंव:, 'कंशंभ्यां वभादयः' [ ] इति वचनादत्र वप्रत्ययोऽस्त्यर्थे । योषितां प्रीतये कः ? धवः भर्त्ता । कोकिलासु को हृद्यः मनोहर : ? रवः शब्दः । करणेषु बवबालवादिषु स्थिरार्थः कः ? बवः करणविशेषः, यः कृष्णचतुर्थ्यां भवति । बवे कार्यमारब्धं स्थिरं भवतीत्यर्थः । क् कस्मिन् वर्णे दृष्टे सति लिपिवशात्को वर्णः प्रतिभाति ? उत्तरम् - धे वः, धकारे दृष्टे वकारः प्रतिभाति । अपुराणः कः ? नवः नवीनः, 'पुराणः कः ? ' इति पाठे तु 'अनवः' इत्यकारप्रश्लेषः ॥ मञ्जरीसनाथजातिः ॥ १२७ ॥ `पक्षे, लङ्केश्वरवैरिणश्च ते वैष्णवाश्च लङ्केश्वरवैरिवैष्णवाः केऽपि वदन्ति - केन केषां प्रीतिरकारि ? अत्रोत्तरम् - आ! दशकन्धरवधेन वः । अस्य - विष्णोरिमे आः, तत्संबोधनम् हे आ(आ:) ! वैष्णवाः !, अथवा आ-समन्ताद दशकन्धरस्य - रावणस्य वधः स तथा, तेन दशकन्धरवधेन वः- युष्माकं प्रीतिरुत्पन्नेत्यर्थः । १. 'यत्' इति २ । प्रश्नोत्तरैकषष्टिशतकाव्यम् ९३
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy